अध्याय 37: पञ्चमहापुरुषलक्षणाध्यायः
सारावली · Saravali (The five Mahapurusha yogas)
44 श्लोक
- श्लोक 1श्रीदेवकीर्तिराजा पञ्चमहापुरुषलक्षणान्नृपतीन् ।कथयति यांस्तानहमपि कथयामि निराकुलीकृत्य ॥ १ ॥
- श्लोक 2स्वक्षेत्रे च चतुष्टये च बलिभिः स्वोच्चस्थितैर्वा ग्रहैःशुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथानुक्रमम् ।मालव्यो रुचकः शशोऽथ कथितो हंसश्च भद्रस्तथासर्वेषामपि विस्तरं मतिमतां संक्षिप्यते लक्षणम् ॥ २ ॥
- श्लोक 3महीसुतात्सत्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद्गुरोश्च ।स्वरं सितात्स्नेहमिनेश्च वर्णं बलाबलं पूर्णलघूनि चैषाम् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनमृदुर्दयालुर्बहुदारभृत्यः स्थिरस्वभावः प्रियसत्यवादी ।सुरद्विजोपास्तिकरः सहिष्णुर्भवेन्नरः सत्वगुणप्रधानः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनशूरः कलाकाव्यनिधिः सुबुद्धिः स्त्रीभोगसंसक्तमनाः प्रवीणः ।आडम्बरी हास्यरतिः प्रगल्भो गेयाक्षविद्राजसिकः प्रदिष्टः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनमूर्खोऽलसो वञ्चयिता परेषां क्रोधी विषण्णः पिशुनः क्षुधार्तः ।आचारहीनो न शुचिर्मदान्धो लुब्धः प्रमादी तमसाभिभूतः ॥ ६ ॥
- श्लोक 7भारो भवति नृपाणां भूम्यर्धं भुञ्जतां मनुष्याणाम् ।येषां भागे त्वर्धं सकलमहीपालकास्ते स्युः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनसमाः स्वरैः सिंहमृदङ्गदन्तिनां रथौघभेरीवृषतोयदायिनाम् ।समस्तभूमण्डलरक्षणक्षमा भवन्ति भूपा जितशत्रवो नराः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनस्निग्धैर्भवन्ति भूपा जिह्वात्वग्दन्तनेत्रनखकेशैः ।रूक्षैरेभिर्निःस्वाः स्वरैश्च ते जातके कथिताः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनस्निग्धस्तेजोयुक्तः शुद्धो वर्णः प्रकीर्तितो नृपतेः ।विपरीतः क्लेशभुजां सुखार्थसुखभागिनां मध्यः ॥ १० ॥
- श्लोक 11व्योमाम्बुवाताग्निमहीस्वभावा जीवासुरेड्यार्किमहीजसौम्यैः ।छायामरुत्पित्तकफस्वरूपा मिश्रैस्तु मिश्रा बलिभिर्नरस्य ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनशब्दार्थविन्न्यायपटुः प्रगल्भो विज्ञानयुक्तो विवृतास्यभागः ।चित्राङ्गसन्धिः कृशपाणिपादो व्योमप्रकृत्या पुरुषोऽतिदीर्घः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनलावण्यवाही बहुभारवाही प्रियादिभाषी द्रवभोजनश्च ।चलस्वरूपो बहुमित्रपक्षः क्षोणीपतिर्नातिचिरप्रगल्भः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनसत्वेन वायोः पुरुषः कृशाङ्गः क्षिप्रं च कोपस्य वशं प्रयाति ।कृत्यैकबुद्धिर्भ्रमणे रतश्च दाता सितो भूपतिरप्रधृष्यः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनशूरः क्षुधार्त्तश्चपलोऽतितीक्ष्णः प्राज्ञः कृशो गौरतनुर्विरोधी ।विद्वान् सुपाणिर्बहुभक्षणश्च वह्निस्वभावः पुरुषोऽतिकायः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनकर्पूरजात्युत्पलपुष्पगन्धो भुनक्ति भोगान् स्थिरलब्धसौख्यः ।सिंहाभ्रघोषः स्थिरचित्तवृत्तिर्महीस्वभावः पुरुषः ससत्वः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनस्फटिकोपलसङ्काशा स्वच्छा गगनोत्थिता भवेच्छाया ।निधिरिव पुंसां धन्या त्रिवर्गफलसाधनी सौम्या ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनस्निग्धा सिता च हरिता कान्ता मातेव सर्वसुखजननी ।सौभाग्याभ्युदयशुभान् करोति जलसम्भवा च्छाया ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनअसितजलदकान्तिः पापगन्धोऽतिमूढोमलिनपरुषकायः शोकसन्तापतप्तः ।स वहति वधदैन्यव्याध्यनर्थार्थनाशान्विचरति पवनोत्था यस्य कान्तिः शरीरे ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनकमनदहनदीप्तिश्चण्डदण्डोऽतिहृष्टःप्रणतसकलशत्रुर्विक्रमाक्रान्तभूमिः ।भजति मणिसुवर्णं सर्वकार्यार्थसिद्धिंप्रशमितगतशोको वह्निजायां प्रभायाम् ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनआद्याम्बुसिक्तवसुधागरुतुल्यगन्धःसुस्निग्धदन्तनखरोमशरीरकेशः ।धर्मार्थतुष्टिसुखभाक् जनसम्प्रियश्चच्छाया यदा भवति भूमिकृता मनुष्ये ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनशीतार्त्तो बहुभाषको द्रुतगतिर्नावस्थितः कुत्रचित्शूरो मत्सरवान् रुजाकररुचिर्दौर्भाग्ययुक्तोऽनयः ।दन्तान्खादति नातिसौहृदमतिर्गान्धर्ववेत्ता कृशोमित्राणां समुपार्जनेऽतिनिपुणः स्वप्ने च खे गच्छति ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनअपगतधृतिरूक्षश्मश्रुकेशः कृतघ्नःस्फुटितचरणहस्तः क्रोधनो नष्टकान्तिः ।विलपति च निबन्धी वित्तसंक्षारकारीभवति पुरुष एवं मारुतैकप्रधानः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनदुर्गन्धी लघुतापनो विपुलधीः क्षिप्रप्रसादः पुनःपीनो रक्तनखाक्षिपाणिचरणो वृद्धाकृतिर्दाहवान् ।मेधावी युधि निर्भयो हिमरुचिर्ब्रूते निगृह्यापरान्नो भीतः प्रणयं प्रयाति बहुभिः कुर्यान्नतानां प्रियम् ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनस्वप्नेऽभिपश्यति सुवर्णदिनेशदीपान्दावाग्निकिंशुकजपामणिकर्णिकारान् ।रक्ताब्जषण्डरुधिरौघतटित्समूहान्पित्ताधिको निगदितः खलु लक्षणज्ञैः ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनश्रीमान् श्लिष्टाङ्गसन्धिर्धृतिबलसहितः स्निग्धकान्तिः सुदेहोग्राही सत्वोपपन्नो हतमुरजघनध्वानघोषः सहिष्णुः ।गौरो रक्तान्तनेत्रो मधुररसरुचिर्बद्धवैरः कृतज्ञःक्लेशे च स्यादखिन्नः सकलजनसुहृत्पूजको वा गुरूणाम् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनसुप्तस्तु पश्यति समुद्रनदीसरांसिमुक्ताफलप्रकरहंससिताब्जशङ्खान् ।नक्षत्रकुन्दकुमुदेन्दुतुषारपातान्श्लेष्माधिको मुनिवरैः कथितः क्रमेण ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनबलरहितेन्दुरविभ्यां युक्तैर्भौमादिभिर्ग्रहैर्मिश्राः ।न भवन्ति महीपाला दशासु तेषां सुतार्थयुताः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनन स्थूलोष्ठो न विषमवपुर्नातिरक्ताङ्गसन्धि-र्मध्ये क्षामः शशधररुचिर्हस्तिनादः सुगन्धः ।सन्दीप्ताक्षः समसितरदो जानुदेशाप्तपाणि-र्मालव्योऽयं विलसति नृपः सप्ततिर्वत्सराणाम् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनवक्त्रं त्रयोदशमितानि दशाङ्गुलानिदैर्घ्येण कर्णविवरं दशविस्तरेण ।मालव्यसंज्ञमनुजः स भुनक्ति नूनंलाटान् समालवससिन्धुसपारियात्रान् ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनदीर्घास्यः स्वच्छकान्तिर्बहुरुचिरबलः साहसावाप्तकार्य-श्चारुभ्रूर्नीलकेशश्चरणरणरतो मन्त्रविच्चोरनाथः ।रक्तश्यामोऽतिशूरो रिपुबलमथनः कम्बुकण्ठः प्रधानःक्रूरो भर्त्ता नराणां द्विजगुरुविनतः क्षामसज्जानुजङ्घः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनखट्वाङ्गपाशवृषकार्मुकवज्रवीणारेखाङ्कहस्तचरणश्च शताङ्गुलश्च ।मन्त्राभिचारकुशलस्तुलया सहस्रंमध्ये च तस्य कथितं मुखदैर्घ्यतुल्यम् ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनविन्ध्याचलसह्यगिरीन् भुनक्ति सप्ततिसमा नगरदेशान् ।शस्त्रानलकृतमृत्युः प्रयाति देवालयं रुचकः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनतनुद्विजास्यो द्रुतगः शशोऽयं शठोऽतिशूरो निभृतप्रतापः ।वनाद्रिदुर्गेषु नदीषु सक्तः कृशोदयी नातिलघुः प्रसिद्धः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनसेनानाथो निखिलनिरतो दन्तुरश्चापि किञ्चित्धातोर्वादे भवति निरतश्चञ्चलः कोशनेत्रः ।स्त्रीसंसक्तः परधनगृहो मातृभक्तः सुजङ्घोमध्ये क्षामो बहुविधमती रन्ध्रवेदी परेषाम् ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनपर्यङ्कशङ्खहरिशस्त्रमृदङ्गमालावीणोपमा यदि करे चरणे च रेखाः ।वर्षाणि सप्ततिमितानि करोति राज्यंप्रत्यन्तिकः क्षितिपतिः कथितो मुनीन्द्रैः ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनरक्तास्योन्नतनासिकः सुचरणो हंसः प्रसन्नेन्द्रियोगौरः पीनकपोलरक्तकरजो हंसस्वरः श्लेष्मलः ।शङ्खाब्जाङ्कुशदाममत्स्ययुगलः खट्वाङ्गचापाङ्गदःचिह्नैः पादकराङ्कितो मधुनिभे नेत्रे च वृत्तं शिरः ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनसलिलाशयेषु रमते स्त्रीषु न तृप्तिं प्रयाति कामार्तः ।षोडशशतानि तुलितोऽङ्गुलानि दैर्घ्येण षण्णवतिः ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनपातीह देशान् खलु शूरसेनान् गान्धारगङ्गायमुनान्तरालान् ।जीवेदनूनां शतवर्षसंख्यां पश्चाद्वनान्ते समुपैति नाशम् ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनशार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलोलम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः ।कामी कोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डस्थलःप्राज्ञः पङ्कजगर्भपाणिचरणः सत्वाधिको योगवित् ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनशङ्खासिकुञ्जरगदाकुसुमेषुकेतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः ।यात्रागुरुद्विपमदप्रथमाम्बुसिक्तभूकुङ्कुमप्रतिमगन्धतनुः सुघोणः ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनशास्त्रार्थविद्धृतियुतः समसंगतभ्रूर्नागोपमो भवति चाथ निगूढगुह्यः ।सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्चितकेशभारः ।
- श्लोक 43कुंडली के 1 पठनस्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनः क्षमी ।भुज्यते विभवश्चास्य नित्यं मन्त्रिजनैः परैः ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनभारस्तुलायां तुलितो यदि स्यात् श्रीमध्यदेशेष्वधिपस्तदासौ ।यस्त्र्यादिपुष्टैः सहितः सभद्रः सर्वत्र राजा शरदामशीतिः ॥ ४४ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।