अध्याय 36: रश्मिचिन्ताध्यायः
सारावली · Saravali (Planetary rays)
29 श्लोक
- श्लोक 1रश्मिप्रधानमेतद्यस्माच्छास्त्रं वदन्ति माणिन्धाः ।तस्मात्प्रयत्नतोऽहं कथयामि यथामतं तेषाम् ॥ १ ॥
- श्लोक 2स्वोच्चस्थे दश सूर्ये नव चन्द्रे पञ्च भूमितनये च ।पञ्चेन्दुजे सुरेड्ये सप्ताष्टौ भार्गवे शनौ पञ्च ॥ २ ॥
- श्लोक 3एवं महेन्द्रशास्त्रे मणिन्धमयबादरायणप्रोक्ते ।सप्त प्रत्येकस्था निर्दिष्टा रश्मयो ग्रहेन्द्राणाम् ॥ ३ ॥
- श्लोक 4सर्वे प्रमाणमेते मुनिवचनात् किन्तु सप्तसंख्यैव ।बहुवाक्यादस्माकं नीचगतः स्याद्विगतरश्मिः ॥ ४ ॥
- श्लोक 5अभिमुखरश्मिर्नीचाद्भ्रष्टः स्वोच्चात्पराङ्मुखो ज्ञेयः ।अन्तरगतेऽनुपातो यथा तथा संप्रवक्ष्यामि ॥ ५ ॥
- श्लोक 6न्यूने मण्डलशोध्यश्चक्रात् षड्भवनतो यदाभ्यधिकः ।आत्मीयरश्मिगुणितात्षड्भक्ताद्रश्मयस्तस्मात् ॥ ६ ॥
- श्लोक 7मित्रद्वादशभागे द्विगुणास्त्रिगुणाः स्वके च दीधितयः ।वक्रे पुनस्तथोच्चे स्वराशिगे तद्भवत्येव ॥ ७ ॥
- श्लोक 8द्विगुणाः स्युर्दीधितयो वक्रस्थेऽप्येवमेव स्युः ।वैरिद्वादशभागे नीचे च भवन्ति षोडशांशोनाः ॥ ८ ॥
- श्लोक 9अस्तं गतो विरश्मिः शनिसितवर्जं ग्रहो ज्ञेयः ।वक्रान्तस्थे द्विगुणा वक्रत्यागेऽष्टभागहीनाश्च ।एवं रश्मिविधानं पूर्वाचार्यैः समुद्दिष्टम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनएकादि पञ्च यावद्रश्मिभिरतिदुःखिताः कुलविहीनाः ।परतन्त्रका दरिद्रा नीचरताः संभवन्ति नराः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनपरतो दशकं यावत् भृतकादीनां विदेशगमनरताः ।जायन्तेऽत्र मनुष्याः सौभाग्यपरिच्युता मलिनाः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनऊर्ध्वं पञ्चदशास्तिर्यावत्तावद्बहुश्रुताः सुजनाः ।धर्माभिरताः सुमुखाः कुलस्य तुल्याः प्रजायन्ते ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनआविंशतेर्भवेयुः कुलाधिका धनयुता जनख्याताः ।कीर्तिकराश्च मनुष्या यथाक्रमं स्वजनसम्पूज्याः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनपूज्याः सुभगा धीराः कृतिनो भूपास्तु शरकृतिर्यावत् ।परतो भवन्ति मनुजाः संसाधितसकलकरणीयाः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनअत उत्तरेण चण्डा नृपाश्रिता नृपतिलब्धधनसौख्याः ।त्रिंशद्यावत्सचिवाः पूज्याश्च भवन्ति भूपानाम् ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनएकत्रिंशद्भिस्तु प्रवराः ख्याता महीभुजामिष्टाः ।द्वात्रिंशद्भिः पुरुषाः पञ्चाशद्ग्रामपतयः स्युः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनग्रामसहस्राधिपतिं त्रिंशत् त्र्यधिका करोति रश्मीनाम् ।त्रिसहस्रग्रामाणां पुरुषं सूतौ चतुस्त्रिंशत् ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनपरतो मण्डलभाजो बहुकोशपरिग्रहा महासत्वाः ।प्रख्यातकान्तियशसो भवन्ति सुभगाश्च लोकानाम् ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनत्रिंशत् षड्भिः सहिता रश्मीनां यस्य जन्मसमये स्यात् ।सार्धं भुनक्ति लक्षं स ग्रामाणां पुमान्नियतम् ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनत्रिंशन्मण्डलसहिता रश्मीनां सम्भवे भवेद्येषाम् ।लक्षत्रितयपतित्वं ग्रामाणां जायते तेषाम् ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनत्रिंशत्सनवा गावो जन्मनि येषां ग्रहोत्थिताः सन्ति ।ते तोषितसकलजना भवन्ति पृथ्वीश्वराः पुरुषाः ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनदशजलधिगुणाया रश्मिसंख्या नराणांदिशति पृथुलभूमेः पालकत्वं च तेषाम् ।हतरिपुवनिताभिर्गीयतेऽतीव कीर्त्तिःकरुणरुदितगर्भैरुद्यदाक्रोशशब्दैः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनशशिजलनिधिसंख्यै रश्मिभिः श्रूयते योजलनिधिरशनायाः पार्थिवः स्यात्स भूमेः ।द्विजलधिरशनायाः पक्षवेदाख्यसंख्यैःत्रिजलधिरशनाया वह्निवेदैस्तथैव ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनवेदाब्धिसंख्यैश्च मयूखजालैर्जाता नरेन्द्राः खलु सार्वभौमाः ।सौम्याः सुरब्राह्मणभक्तिशीला दीर्घायुषः सत्वयुता भवन्ति ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनपरतः परतः किरणैर्द्वीपान्तरपालका निरुपसर्गाः ।सर्वनमस्याः सुभगा महेन्द्रतुल्यप्रतापाश्च ॥ २५ ॥
- श्लोक 26चत्वारिंशद्युक्ता पञ्चादिभिरत्र यस्य सूतौ स्यात् ।ज्ञेयं तस्यारिष्टं सर्वक्षितिपालकं मुक्त्वा ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनभुवनभरसहिष्णोः सर्वतः क्षीणशत्रोःत्रिदशपतिमहिम्नः सर्वलोकस्तुतस्य ।विदधति विहगानां रश्मयोऽतीव दीप्ता-स्तुरगकृतिसमानाश्चक्रवर्तित्वमेव ॥ २७ ॥
- श्लोक 28अभिमुखकरप्रवाहाः फलं प्रयच्छन्ति पुष्टतरमाशु ।तद्विपरीतं पुंसां पराङ्मुखास्तु ग्रहेन्द्राणाम् ॥ २८ ॥
- श्लोक 29जन्मसमये ग्रहाणां रश्मीनां संक्षये क्षयो भवति ।वृद्धेर्वर्धिष्णूनामधमोत्तमता क्रमेणैव ॥ २९ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।