अध्याय 35: राजयोगाध्यायः
सारावली · Saravali (Raja yogas)
186 श्लोक
- श्लोक 1राजोपयोगिशास्त्रं यस्मात्प्रभवो विशेषतस्तेषाम् ।सञ्चिन्त्या नृपयोगास्तानेवाहं प्रवक्ष्यामि ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनस्वोच्चत्रिकोणगृहगैर्बलसंयुतैश्चत्र्याद्यैर्नृपो भवति भूपतिवंशजातः ।पञ्चादिभिर्जनपदप्रभवोऽपि सिद्धोहीनैः क्षितीश्वरसमो न तु भूमिपालः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनअशुभगगनवासैः स्वोच्चगैः क्रूरचेष्टंकथयति यवनेन्द्रो भूपतिं विक्रमोत्थम् ।न तु भवति नरेन्द्रो जीवशर्मोक्तपक्षेभवति नृपतियोगैः सत्कृतो राष्ट्रपालः ॥ ३ ॥
- श्लोक 4एष्विह भवन्त्यवश्यं भूपतियोगेषु नीचकुलपुरुषाः ।तानग्रतः प्रवक्ष्ये यथामतं शास्त्रकाराणाम् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनस्वोच्चस्थै रविभौमसौरगुरुभिः सर्वैस्त्रिभिश्चैकगैःलग्ने षोडशवृद्धतापसगणैः सन्दर्शिताः पार्थिवाः ।द्वाभ्यां चैकतमोदये स्वभवने चन्द्रे पुनः षोडशःसर्वो नीचकुलोद्भवोऽपि वसुधां पात्येव वाटीमिव ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनगणोत्तमे लग्ननवांशकोद्गतो निशाकरश्चापि गणोत्तमेऽथवा ।चतुर्ग्रहैश्चन्द्रविवर्जितैस्तदा निरीक्षितस्यादधमोद्भवो नृपः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनउदयगिरिनिविष्टैर्मेषसंस्थैर्ग्रहेन्द्रैःशशिरुधिरसुरेड्यैर्जायते पार्थिवेन्द्रः ।जलनिधिरशनायाः पालकः सर्वभूमे-र्हतरिपुपरिवारः सर्वतः फूत्करोति ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनस्वोच्चे गुराववनिजे क्रियगे विलग्नेमेषोदये च सकुजे वचसामधीशे ।भूपो भवेदिह स यस्य विपक्षसैन्यंतिष्ठेत जातु पुरतः सचिवा वयस्याः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठननिशाभर्त्ता चाये भृगुतनयदेवेड्यसहितःकुजः प्राप्तः स्वोच्चे मृगमुखगतः सूर्यतनयः ।विलग्ने कन्यायां शिशिरकरसूनुर्यदि भवेत्तदाऽवश्यं राजा भवति बहुविज्ञानकुशलः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनस्वर्क्षे नक्षत्रनाथः स्फुटकरनिकरालङ्कृतः प्राप्तलग्नोद्यूने सोमस्य पुत्रो यदि रिपुभवनं भास्करः संप्रयातः ।पाताले दानवेड्यो गुरुरपि गगने सौरभौमौ तृतीयेसद्भूपालो भवेद्यः शशिकरधवलं चामरं राजलक्ष्मीम् ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनवर्गोत्तमगते चन्द्रे लग्ने वा चन्द्रवर्जिते ।चतुराद्यैर्ग्रहैर्दृष्टे जातो नरपतिर्भवेत् ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनशिशिरकिरणे स्वोच्चे लग्ने पयोम्बुनिधेः समेघटधरगते भानोः पुत्रे मृगाधिपतौ रविः ।अलिगृहगतो वाचांनाथः स्फुरत्करराजितोयदि नरपतिः स्फीतश्रीकस्तदा बहुवाहनः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनमृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिग-स्तथा कन्यां त्यक्त्वा बुधभवनसंस्थः कुतनयः ।स्थितो नार्यां सौम्यो धनुषि सुरमन्त्री यदि भवेत्तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनउदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः क्षितिसुत उच्चे ।मृगपतिसंस्थे दशशतरश्मौ घटधरगे स्याद्दिनकरपुत्रे ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनकुजे विलग्ने च शशी यदाऽस्ते स्फुटांशुसम्भारविराजिताङ्गः ।राजा तदा शत्रुभिरप्रधृष्यो वेदार्थविद्धेतुशतानुवादैः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनकरोत्युत्कृष्टोद्यद्दिनकृदमृताभीशुसहितःस्थितस्ताद्दग्रूपं सकलनयनानन्दजननः ।अपूर्वोऽयं स्मृत्या नयनजलसिक्तोऽपि सततंरिपुस्त्रीशोकाग्निर्ज्वलति हृदयेऽतीव सुतराम् ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनशुक्रो घटे कुजो मेषे स्वोच्चे देवपुरोहितः ।यदि राजा भवेन्नूनं स्वयशोधौतदिङ्मुखः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनउदयति गुरुरुच्चे तप्तहेमप्रभावोहरिततुरगनाथो व्योममध्यावगाही ।गवि शशिबुधशुक्रा यस्य सूतौ नरस्यस्वभुजविजितभूमिः सर्वतः पार्थिवेन्द्रः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनधनुषि सुरेड्यः शशभृदुपेतो मृगमुखसंस्थः क्षितितनयश्च ।उदयति तुङ्गे सुररिपुवन्द्यः शशितनयो वा यदि नृपतिः स्यात् ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनचापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपःलग्ने भानुसुतोऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः ।यद्येवं भवति क्षितेरधिपतिः सञ्चिन्त्य शौर्यं भयात्दूरादेव नमन्ति यस्य रिपवो दग्धाः प्रतापाग्निना ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनषष्ठं द्यूनमथाष्टमं शिशिरगोः प्राप्ताः समस्ताः शुभाःक्रूराणां यदि गोचरे न पतिता भान्वालयाद्दूरतः ।भूपालः प्रभवेत्स यस्य जलधेर्वेलावनान्तोद्भवैःसेनामत्तकरीन्द्रदानसलिलं भृङ्गैर्मुहुः पीयते ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनन प्राप्नोति जरामाशु नो भजत्यरितो भयम् ।जातः स्यादधियोगेऽस्मिन् धृतिसौभाग्यसौख्यभाक् ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनबुधः स्वोच्चे लग्ने तिमियुगलगावीड्यशशिनौमृगे मन्दः सारो जुतुमगृहगो दानवसुहृत् ।य एवं कुर्यात् स क्षितिभृदहितध्वंसनिरतोनिरालोकं लोकं चलितगजसङ्घातरजसा ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनकेसरिगो महेन्द्रसचिवो दिनकरसहितःकुम्भगतोऽर्कजः शशधरः खलु भवति वृषे ।वृश्चिकभे क्षितेस्तु तनयो मिथुन इन्दुसुतोमेषलग्नसमुदयो यदि स तु मनुजपतिः ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनकार्मुके त्रिदशनायकमन्त्री भानुजो वणिजि चन्द्रसमेतः ।मेषगस्तु तपनो यदि लग्ने भूपतिर्भवति सोतुलकीर्तिः ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनअत्युच्चे लग्नसंस्थो रविरपि भगवान् पार्थिवं क्रूरचेष्टंयातायातैः समस्तं चतुरुदधिजलं यस्य सेनाः पिबन्ति ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनउदकचरनवांशकेषु षष्ठः कमलरिपुः सकलाभिराममूर्तिः ।उदयति विहगे शुभे स्वलग्ने भवति नृपो यदि केन्द्रगा न पापाः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनआपूर्णमण्डलकलाकलितं शशाङ्कंपश्यन्ति शुक्रसुरपूजितसोमपुत्राः ।लग्नाधिपोऽतिबलवान् पृथिवीश्वरः स्यात्वर्गोत्तमश्च नवमः खलु चेद्विलग्ने ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनवर्गोत्तमे त्रिप्रभृतिग्रहेन्द्राः केन्द्रस्थिता नो शुभसंयुताश्च ।नोरूक्षधूमो न विवर्णदेहाः कुर्वन्ति राज्ञः प्रसवं प्रसन्नाः ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनएक एव खगः स्वोच्चे वर्गोत्तमगतो यदि ।बलवान् मित्रसंदृष्टः करोति पृथिवीपतिम् ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनशीर्षोदयर्क्षेषु गताः समस्ता नीचारिवर्गे स्वगृहे शशाङ्कः ।सौम्येक्षितोऽन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम् ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनउपचयगृहसंस्थो जन्मपो यस्य चन्द्रात्शुभगृहमथवांशे केन्द्रयाताश्च सौम्याः ।सकलबलवियुक्ता ये च पापाभिधानाःस भवति नरनाथः शक्रतुल्यो बलेन ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनअत्युच्चस्था रुचिरवपुषः सर्व एव ग्रहेन्द्राःमित्रैर्दृष्टा यदि रिपुदृशां गोचरं न प्रयाताः ।कुर्युर्नूनं प्रसभमरिभिर्गर्जितैर्वारणाग्र्यैःसेनाश्वीयैश्चलति चलितैर्यस्य भूः पार्थिवेन्द्रम् ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनपरमोच्चे स्थितश्चन्द्रो यदि शुक्रेण दृश्यते ।कुर्यान्महीपतिं पूर्णं पापैरापोक्लिमोपगैः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनदृश्येते शुभदैः स्वकेन्द्रभवने मित्रैश्च पापैस्तथायुद्धे नो रिपुभिर्जितौ बलयुतौ जन्मोदयर्क्षाधिपौ ।भूपः स्यान्निजराशिनाथनवमे चन्द्रोदये चेद्यशोयस्येभस्रुतदानलुब्धमधुपैश्चातुर्दिशं गीयते ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनउच्चराशिर्भवेद्धोरा यस्यासौ कुरुते नृपम् ।स्वांशेऽथ सुहृदुच्चांशे दृष्टः केन्द्रोपगैः शुभैः ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनस्थितो भानोः पुत्रो विरचितबलः पश्चिमार्द्धे मृगस्यरविः सिंहे शुक्रस्तुलिनि रुधिरो मेषगः कर्किणीन्दुः ।कुमारीं सम्प्राप्तो यदि भवति वा शर्वरीनाथसूनुःप्रजातो भूपालश्छंदयति महीमेकशुक्लातपत्राम् ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनवर्गोत्तमस्वभवनेषु गता ग्रहेन्द्राःसर्वे यदा रुचिररश्मिशिखाकलापाः ।उत्पद्यते जगति सीममतीं धरित्रींयः पालयेत् क्षितिपतिर्जितशत्रुपक्षः ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनकेन्द्रे विलग्ननाथः सुहृद्भिरभिवीक्षितो विहगैः ।लग्नस्थिते च सौम्ये भूपतिरिह जायते पुरुषः ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनसुरपतिगुरुः सेन्दुर्लग्ने वृषे समवस्थितोयदि बलयुतो लग्नेशश्च त्रिकोणगृहं गतः ।रविशनिकुजैर्वीर्योपेतैर्न युक्तनिरीक्षितोभवति स नृपः कीर्त्या युक्तो हताखिलकण्टकः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनन नीचगृहसंस्थिता न च रिपोर्गृहं संगताःस्वराशिमथवांशकानुदयगोच्चमंशं यदि ।कलाभिरतिभूषिते कुमुदषण्डबोधप्रदेसुहृद्भिरभिवीक्षिताः क्षितिपतिं विदध्युर्ग्रहाः ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनयो यः पूर्णं शिशिरकिरणं प्राप्तवर्गोत्तमांशंसुस्पष्टार्चिर्गगनगमनः पश्यति स्वोच्चसंस्थम् ।स क्षोणीशं जनयति दशां प्राप्य सौम्यः स्वकीयांख्यातं लोके यदि बलयुताः कण्टकस्था न पापाः ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनजन्मोदयभवनपती बलसहितौ केन्द्रभेऽथ हिबुके वा ।इन्दुर्जलगृहगश्चेत् त्रिकोणगो वा महीपालः ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनस्वगृहे मित्रभागेषु स्वांशे वा मित्रराशिषु ।कुर्वन्ति च नरं सूतौ सार्वभौमं नराधिपम् ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनपरमोच्चगताः सर्वे स्वोच्चांशे यदि सोमजः ।त्रैलोक्याधिपतिं कुर्युर्देवदानववन्दितम् ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनयस्योत्तरस्यां भगवान् वसिष्ठो बृहस्पतिः प्रागपरे च भार्गवः ।अगस्त्यनामा खलु दक्षिणस्यां स नष्टशत्रुश्च भवेन्नराधिपः ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनशशी पूर्णः स्वांशं स्वगृहमथवा स्वोच्चभं वा प्रयातोदिवः पातुर्मन्त्री दितिजगुरुणा वीक्षितः केन्द्रसंस्थः ।रविर्लग्ने स्वांशं यदि बलयुतः पश्यति स्यात्स भूपःप्रभग्नं यस्येभैश्चतुरुदधिभूशल्लकीनामरण्यम् ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनकुमुदगहनबन्धौ वीक्ष्यमाणे समस्तैःगगनगृहनिवासैर्दीर्घजीवी नरः स्यात् ।फलमशुभसमुत्थं नैव केमद्रुमोत्थंभवति मनुजनाथः सार्व भौमो जितारिः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनउच्चाभिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः ।स शास्ति पृथ्वीं बहुरत्नपूर्णां बृहस्पतिः कर्कटके यदि स्यात् ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनतुङ्गेषु षड्विबुधमार्गचरा उपेताःस्वांशे मयूखनिकरैः परिपूरिताङ्गाः ।उत्पादयन्ति कुलिशाङ्कितपाणिपादंपृथ्वीपतिं सगरवेणययातितुल्यम् ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनशुभभवनसमेतैः सौम्यभागेषु सौम्यैःस्फुटरुचिरकरोघैः प्रस्फुरद्भिर्विलग्ने ।रविमुषितमयूखैस्तैश्च पापैरमिश्रै-र्गिरिगहननिवासी तापसः स्यान्नरेन्द्रः ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनशुभफणपरगाः शुभप्रदा उभयगृहे यदि पापसंचयः ।स्वभुजहतरिपुर्महीपतिः सुरगुरुतुल्यमतिः प्रकीर्त्तितः ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनविलग्ननाथः खलु लग्नसंस्थः सुहृद्गृहे मित्रदृशां पथि स्थितः ।करोति नाथं पृथिवीतलस्य दुर्वारवैरिघ्नमिहोदये शुभे ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनसम्पूर्णमूर्तिर्भगवान् शशाङ्को मेषांशकस्थो गुरुणा च दृष्टः ।नीचेन कश्चिन्न च वीक्षितोऽन्यैः प्राह क्षितीशं यवनाधिराजः ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनलग्नाच्छशी त्रिरिपुलाभनभःस्थलेषुसूतावखण्डितवपुः पृथिवीश्वरः स्यात् ।दृष्टः सुरेन्द्रगुरुणा न च वीक्षितोऽन्यै-र्जन्माधिपो दशमगः स्मरगोऽथवा स्यात् ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनबिभ्रद्रश्मिकरालपूर्णपरिधिर्नक्षत्रसम्पालकःतुङ्गांशे समवस्थितैश्च सकलैः प्रोद्वीक्षितो व्योमगैः ।कुर्याद्भूमिपतिं यशस्यचरितं हस्त्यश्वसैन्यं जगत्योव्याच्छेषफणीन्द्रतुल्यमखिलोर्वीभारखिन्नः श्वसन् ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनसुधामृणालोपमबिम्बशोभितः शशी नवांशे नलिनीप्रियस्य ।यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनशशिबुधरुधिराङ्गैः स्वांशकस्थैर्न नीचैःव्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः ।तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्तेभवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठननीचारिवर्गरहितैर्विहगैस्त्रिभिस्तुस्वांशोपगैर्बलयुतैः शुभदृष्टिदृष्टैः ।गोक्षीरशङ्खधवलो मृगलाञ्छनश्चस्याद्यस्य जन्मनि सभूमिपतिर्जितारिः ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनकुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नंयदि बलसमुपेतः पश्यति व्योमचारी ।उदयभवनसंस्थः पापसंज्ञो न चैवंभवति मनुजनाथः सार्वभौमः सुदेहः ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनजलचरराशिनवांशक इन्दौ तनुभवने शुभदः स्वकवर्गे ।अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनवर्गोत्तमे हिमकरः सकलस्थितोंऽशेकुर्यान्महीपतिमपूर्वयशोभिरामम् ।यस्याश्ववृन्दखुरघातरजोभिभूतोभानुः प्रभातशशिनोऽनुकरोति रूपम् ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनसर्वग्रहकृते योगे चक्रवर्तीश्वरो भवेत् ।एकैकेन तथा जाता मण्डलानामधीश्वराः ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनएकोऽपि विहगः कुर्यात् पञ्चमांशगतो नृपम् ।समस्तबलसम्पन्नश्चक्रवर्तिनमेव च ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनयदि पश्यति चन्द्रमसं विबुधगुरुर्वृषभसंस्थितः प्रसवे ।अवति पृथिवीमुदग्रां स्फुरन्मणिद्योतितदिगन्ताम् ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनकुर्यात्तुङ्गे त्रिकोणे वा स्वराशिस्थो विलोकयन् ।ग्रहस्तुषारकिरणं निषादमपि पार्थिवम् ॥ ६६ ॥
- श्लोक 67कुंडली के 1 पठनस्वगृहे तृतीयभागे शशी स्थितः पार्थिवं यदा कुरुते ।परिपूर्णबलः शुभदो यदि प्रसूतौ महाराजम् ॥ ६७ ॥
- श्लोक 68कुंडली के 1 पठनस्वांशे दिवाकरो यस्य स्वक्षेत्रे च क्षपाकरः ।स राजा गजदानौघशीकरोक्षितभूतलः ॥ ६८ ॥
- श्लोक 69कुंडली के 1 पठनलग्ने रविपुत्रसंयुते देवेज्येऽस्तगतेनवोदिते ।दृष्टेऽसुरराजमन्त्रिणा ग्रामीणो नृपतिर्भवेदिह ॥ ६९ ॥
- श्लोक 70कुंडली के 1 पठनउदयेऽसुरमन्त्रिवरो गुरुभे गुरुदृष्टिपथं च गतः ।कुरुते नियतं सनृपं यदि तुङ्गगतश्च बुधः ॥ ७० ॥
- श्लोक 71कुंडली के 1 पठनशुक्रभास्करेन्दवो भावमेकमाश्रिताः ।जीवदृष्टमात्रकाः स्यात्तदा महीपतिः ॥ ७१ ॥
- श्लोक 72कुंडली के 1 पठनलग्नगाः सितशशाङ्कजभौमाः सप्तमे शशिनि वाक्पतियुक्ते ।तिग्मरश्मितनयेन च दृष्टे जायते पृथुयशाः पृथिवीशः ॥ ७२ ॥
- श्लोक 73कुंडली के 1 पठनविबुधगुरुर्यदि भौमनवांशे रुधिरनिरीक्षितपूर्णबलश्च ।जनयति कुत्सितजन्ममहीपं क्रियपरिसंस्थितकर्मगतोऽर्कः ॥ ७३ ॥
- श्लोक 74कुंडली के 1 पठनतृतीयगाः शुक्रशशाङ्कभास्कराः कुजोऽस्तसंस्थो नवमे बृहस्पतिः ।गणोत्तमो लग्नगृहांशकोद्गमो यदा तदा हीनकुलो महीपतिः ॥ ७४ ॥
- श्लोक 75कुंडली के 1 पठनजीवो बुधो भृगुसुतोऽथ निशाकरो वाधर्मे विशुद्धतनवः स्फुटरश्मिजालाः ।मित्रैर्निरीक्षितयुता यदि सूतिकालेकुर्वन्ति देवसदृशं नृपतिं महान्तम् ॥ ७५ ॥
- श्लोक 76कुंडली के 1 पठनतपोगृहं यस्य भवेत्तदुच्चकं ग्रहेण तेनाथ युतं निरीक्षितम् ।ग्रहद्वयं स्वोच्चगतं यदा भवेत्तदा कुटुम्बी नियतं महीपतिः ॥ ७६ ॥
- श्लोक 77कुंडली के 1 पठनसुतभवने शशिदेवनमस्यौ भवनपतिप्रसमीक्षितदेहौ ।भृगुतनयो यदि मीनसमेतो भवति नृपः खलु कुत्सितवंशः ॥ ७७ ॥
- श्लोक 78कुंडली के 1 पठनचन्द्रस्त्रिपुष्करस्थः स्वोच्चे वचसां पतिः सलक्ष्मीकम् ।उत्पादयति स्वामिनमुत्तमपात्रं समग्रभुवः ॥ ७८ ॥
- श्लोक 79कुंडली के 1 पठनकेन्द्रस्वोच्चमुपेतः सुरमन्त्री दशमगो यदा शुक्रः ।नूनं स भवति पुरुषः समस्तपृथ्वीश्वरः ख्यातः ॥ ७९ ॥
- श्लोक 80कुंडली के 1 पठनस्वर्क्षे शशी विपुलरश्मिशिखाकलापाःस्वांशे स्थिता बुधबृहस्पतिदानवेज्याः ।पातालगा दिनकरेण निरीक्षिताश्चसंसूचयन्ति नृपतिं द्विजमुख्यजातम् ॥ ८० ॥
- श्लोक 81कुंडली के 1 पठनरविर्नभस्थः स्वत्रिकोणगोऽपि वा स्वराशिसंस्थाः सितजीवचन्द्राः ।तृतीयषष्ठायगताश्च चन्द्रात्कुर्वन्ति गोपालमिह क्षितीशम् ॥ ८१ ॥
- श्लोक 82कुंडली के 1 पठनसप्तमभवने सौम्या मित्रांशगताः सुहृद्भिरिह दृष्टाः ।उच्चे कुजो यदि नृपः समस्तनृपपालकः श्रेष्ठः ॥ ८२ ॥
- श्लोक 83कुंडली के 1 पठनरविशशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थै-र्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः ।स तपसि भृगुपुत्रे भूपतिः स्यात्प्रयाणेगजमदजलसेकैर्लीयते यस्य रेणुः ॥ ८३ ॥
- श्लोक 84कुंडली के 1 पठनस्वोच्चे भानुः प्रकटितबलो व्योममध्ये सजीवःशुक्रो धर्मे यदि बलयुतः स्वं नवांशं प्रपन्नः ।लग्ने वर्गे शुभगगनगो राजपुत्रेण दृष्टःपृथ्वीपालो धवलितजगत्स्यात् सितैः स्वैर्यशोभिः ॥ ८४ ॥
- श्लोक 85कुंडली के 1 पठनवृषे शशी लग्नगतः सुपूर्णः सितेन दृष्टो वणिजि स्थितेन ।बुधोऽपि पातालगतो यदि स्यात्तदान्यजातो भवति क्षितीशः ॥ ८५ ॥
- श्लोक 86कुंडली के 1 पठनक्ष्मासुतः स्वोच्चमुपाश्रितो यदारवीन्दुवाचस्पतिभिर्निरीक्षितः ।भवेन्नरेन्द्रो यदि कुत्सितस्तदासमस्तपृथ्वीपरिरक्षणे क्षमः ॥ ८६ ॥
- श्लोक 87कुंडली के 1 पठनजायतेऽभिजिति यः शुभकर्माभूपतिर्भवति सोऽतुलवीर्यः ।नीचवेश्मकुलजोऽपि नरोऽस्मिन्राजयोग इति न व्यपदेशः ॥ ८७ ॥
- श्लोक 88कुंडली के 1 पठनगण्डान्तविष्टिपरिघव्यतिपातजात-स्ताराधिपः समुदये यदि कृत्तिकायाम् ।क्रीडेत् कृपाणफलकाहितचण्डवेग-प्रोत्थापिताहितशिरो गुलिकाभिरीशः ॥ ८८ ॥
- श्लोक 89कुंडली के 1 पठनबुधोदये सप्तमगे बृहस्पतौचन्द्रे कुलीरे सुखराशिगेऽमले ।वियद्गते भार्गवनन्दने गृहेप्रशास्ति पृथ्वीं मनुजो निराकुलः ॥ ८९ ॥
- श्लोक 90कुंडली के 1 पठनएकान्तरगैर्विहगैः षड्भिश्चक्रं क्षितीश्वरं कुर्यात् ।अत्रैव शुभे लग्ने सकलमहीपालको नृपतिः ॥ ९० ॥
- श्लोक 91कुंडली के 1 पठनअयमेवसमुद्राख्यो द्वौ लग्ने यदि संस्थितौ ।करोति भूभुजां नाथं सोम्यैः केन्द्रेषु संस्थितैः ॥ ९१ ॥
- श्लोक 92कुंडली के 1 पठननिरन्तरं यदि भवनेषु षट्सुग्रहाः स्थिता उदयगृहात् समस्ताः ।स्वपङ्क्तिदन्नरपतिमेव कुर्यु-श्चतुष्टयान्नरपतिमन्त्रिणं च ॥ ९२ ॥
- श्लोक 93कुंडली के 1 पठनसुतसुखदुश्चिक्यगता यदि कर्मणि कीर्त्तयन्ति यवनाद्याः ।बन्धुसुतार्थगजाढ्यो बहुभृत्यो जायते क्षितिपः ॥ ९३ ॥
- श्लोक 94कुंडली के 1 पठनकर्मास्तजलहोरासु ग्रहाः सर्वे प्रतिष्ठिताः ।कुर्वन्ति नगरं नाम यत्र स्यात्पृथिवीपतिः ॥ ९४ ॥
- श्लोक 95कुंडली के 1 पठनसुखतनुमदगाः शुभाः समग्राःकुजरविरविजास्त्रिधर्मलाभसंस्थाः ।यदि भवति महीपतिः प्रशान्तोयवनपतिकृतो ह्ययं महीपयोगः ॥ ९५ ॥
- श्लोक 96कुंडली के 1 पठनलाभधर्मस्थिताः सौम्याः पापाः कर्मणि संस्थिताः ।नृपतीनामयं योगो भवेत्कलशसंज्ञितः ॥ ९६ ॥
- श्लोक 97कुंडली के 1 पठनत्रयो ग्रहा भ्रातृसुतायसंस्थास्तथा शुभौ द्वौ रिपुसङ्गतौ च ।कलत्रलग्नं च गतौ च शेषौ नृपस्य योगः खलु पूर्णकुम्भः ॥ ९७ ॥
- श्लोक 98सुविस्तरं नीचकुलोद्भवा मयाविचित्ररूपाः कथिताः क्षितीश्वराः ।अतःपरं पार्थिववंशजन्मनांभवन्ति योगा मुनिभिः प्रकीर्तिताः ॥ ९८ ॥
- श्लोक 99कुंडली के 1 पठनसिंहोदये दिनकरो मृगलाञ्छनोजेकुम्भस्थितो रविसुतः स्वगृहे सुरेज्यः ।स्वोच्चेऽपि भूमितनयः पृथिवीश्वरस्यजन्मप्रदः सकललोकनमस्कृतस्य ॥ ९९ ॥
- श्लोक 100कुंडली के 1 पठनशुभे लग्नं याते बलवति तथा धर्मराशिक्रमेणशुभैः शेषैर्लग्नं धनगृहमथ त्र्यायषट्कर्मगैश्च ।महीपालः श्रीमान् भवति नियतं यस्य मातङ्गसङ्घाःप्रयाणे मेघानां स्रुतमदजलैर्भ्रान्तिमुत्पादयन्ति ॥ १०० ॥
- श्लोक 101कुंडली के 1 पठनसुरपतिगुरुर्बन्धुस्थाने स्ववेश्मगतो यदातुहिनकिरणः सम्पूर्णाङ्गस्तपःसमवस्थितः ।त्रितनुभवनप्राप्ताः शेषा ग्रहा यदि भूपतिःभवति धृतिमान् स्फीतश्रीकस्तथा बहुवाहनः ॥ १०१ ॥
- श्लोक 102कुंडली के 1 पठनस्वोच्चोदये कृतपदः कुमुदस्य बन्धु-र्जीवोऽर्थगो वणिजि दानवपूजितश्च ।कन्याजसिंहगृहगा बुधभौमसूर्याःचन्द्रांशुनिर्मलयशा भवति क्षितीशः ॥ १०२ ॥
- श्लोक 103कुंडली के 1 पठननक्षत्रनाथसहितः सविता नभस्थःसौरिर्विलग्नभवने हिबुके सुरेज्यः ।देवारिपूज्यबुधभूमिसुतैः सलाभैःख्यातो महीपतिरिहस्वगुणैर्नरः स्यात् ॥ १०३ ॥
- श्लोक 104कुंडली के 1 पठनमृगराशिं परित्यज्य स्थितो लग्ने बृहस्पतिः ।करोत्यवश्यं नृपतिं मत्तेभपरिवारितम् ॥ १०४ ॥
- श्लोक 105कुंडली के 1 पठनलग्ने भौमो रविजसहितस्तीक्ष्णरश्मिः खमध्येवाचां स्वामी दशमगृहगो भार्गवः सप्तमस्थः ।आये हेम्नः शिशिरकिरणो बन्धुराशिं प्रपन्नोयद्येवं स्याद्विपुलयशसो जन्म भूपालकस्य ॥ १०५ ॥
- श्लोक 106कुंडली के 1 पठनन्यूनोऽपि कुमुदबन्धुः स्वोच्चस्थः पार्थिवं करोति नरम् ।किं पुनरखण्डमण्डलकरनिकरप्रकटितदिगन्तः ॥ १०६ ॥
- श्लोक 107कुंडली के 1 पठनलग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः ।विदधाति महीपालं विक्रमधनवाहनोपेतम् ॥ १०७ ॥
- श्लोक 108कुंडली के 1 पठनयदि पश्यति दानवार्चितं वचसामधिपस्तदा भवेत् ।नृपतिर्बहुनागनायको भुजगेन्द्र इव प्रतापवान् ॥ १०८ ॥
- श्लोक 109कुंडली के 1 पठनदिवौकसां पतेर्मन्त्री कुर्यात्पश्यन्बुधं नरम् ।शिरोभिः शासनं यस्य धारयन्ति नृपाः सदा ॥ १०९ ॥
- श्लोक 110कुंडली के 1 पठनलग्नाधिपतिः स्वोच्चे पश्यन्मृगलाञ्छनं नृपं कुरुते ।बहुगजतुरगबलौघैः क्षपितविपक्षं महाविभवम् ॥ ११० ॥
- श्लोक 111कुंडली के 1 पठनइन्दुः स्वोच्चे पश्यन् करोति बुधभार्गवौ नरं नृपतिम् ।प्रणतारिपक्षमुच्छ्रितयशसं सौभाग्यवन्तं च ॥ १११ ॥
- श्लोक 112कुंडली के 1 पठनअधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा ।अनिशं कुरुते लक्ष्मीस्वामिनं भूपतिं नरम् ॥ ११२ ॥
- श्लोक 113कुंडली के 1 पठनस्वांशेऽधिमित्रभावे वा गुरुणा यदि दृश्यते ।शशी महीपतिं कुर्याद्दिवसे नात्र संशयः ॥ ११३ ॥
- श्लोक 114कुंडली के 1 पठनजन्माधिपतिः केन्द्रे बलपरिपूर्णः करोति परमर्धिम् ।ब्राह्मणकुलेऽपि नृपतिं किं पुनरवनीशसंभूतम् ॥ ११४ ॥
- श्लोक 115कुंडली के 1 पठनरविरप्यधिमित्रस्थो यदि चन्द्रसमीक्षितः ।अङ्गदेशाधिपं कुर्याद्धर्मार्थसहितं नृपम् ॥ ११५ ॥
- श्लोक 116कुंडली के 1 पठनउच्चस्थः शशितनयः कुमुदाकरबन्धुना च समधिगतः ।जनयति मगधाधिपतिं गजमदगन्धेन वासितदिगन्तम् ॥ ११६ ॥
- श्लोक 117कुंडली के 1 पठनप्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः ।एकोऽपि कुरुते जातं नराधिपमरिंदमम् ॥ ११७ ॥
- श्लोक 118कुंडली के 1 पठनकेन्द्रे विलग्ननाथः श्रेष्ठबलो मानवाधिपं कुरुते ।गोपालकुलेऽपि नरं किं पुनरवनीश्वराणां च ॥ ११८ ॥
- श्लोक 119कुंडली के 1 पठनकर्कटसंस्थः केन्द्रे बृहस्पतिर्दशमधामगः शशिनः ।चतुरुदधिमेखलायाः स्वामी भूमेर्भवति जातः ॥ ११९ ॥
- श्लोक 120कुंडली के 1 पठनमेषे सहस्ररश्मिः सह शशिना संस्थितः करोतीशम् ।केरलकर्णाटान्ध्रद्रविडानां चोलकस्यापि ॥ १२० ॥
- श्लोक 121कुंडली के 1 पठनउच्चस्थस्त्रिदशगुरुः कैरववनबन्धुसङ्गमं प्राप्तः ।काश्मीरमण्डलभुवां करोति पुरुषाधिपमवश्यम् ॥ १२१ ॥
- श्लोक 122कुंडली के 1 पठनतुङ्गायस्वगृहोदयकण्टकनवमेषु यस्य शुक्रगुरू ।सोवश्यं भवति नरो राजांशसमुद्भवो नृपतिः ॥ १२२ ॥
- श्लोक 123कुंडली के 1 पठनदिक्स्थानकालादिबलैरुदाराः शुभाः पुनः केन्द्रमुपागताश्च ।कुर्वन्ति पापैरविमिश्रचाराः पृथ्वीभुजं त्रिप्रभृतिग्रहेन्द्राः ॥ १२३ ॥
- श्लोक 124कुंडली के 1 पठनरवेर्द्वितीये बुधजीवभार्गवा नचाशुभैर्दृष्टयुता न वार्कगाः ।स्फुरत्करौघस्फुटपिञ्जरीकृता नरं प्रकुर्युस्त्रिसमुद्रपालकम् ॥ १२४ ॥
- श्लोक 125कुंडली के 1 पठनकुन्दाब्जकाशधवलः परिपूर्णमूर्त्तिःजन्माधिपेन कविना शुभदेन दृष्टः ।स्त्रीमानभङ्गनिपुणं दयितं क्षपायाःप्रख्यातकीर्तिसुनयं कुरुते नरेन्द्रम् ॥ १२५ ॥
- श्लोक 126कुंडली के 1 पठनदेवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः ।जनयेद्वसुधापालं निर्जितारातिमण्डलम् ॥ १२६ ॥
- श्लोक 127कुंडली के 1 पठनकारकयोगे जाता भवन्ति पृथ्वीभुजो नरास्तेषाम् ।गजतुरगपत्तिविचलितरजोवितानं भवेद्गगनम् ॥ १२७ ॥
- श्लोक 128कुंडली के 1 पठनकुजे विलग्ने तरणेश्च नन्दनेरसातले शुक्रबृहस्पतीन्दुजाः ।मृगोदये मन्दनवांशकस्थितेरसातलेशो भवतीह पार्थिवः ॥ १२८ ॥
- श्लोक 129कुंडली के 1 पठनस्वोच्चे गुरुस्तनुगतः स्वगृहे शशाङ्कःशुक्रो झषे परममुच्चमितोऽसितश्च ।मेषे तथैव भगवान् सविता कुजः स्व-वर्गाधिपो यदि भवेन्नृपतिः प्रजातः ॥ १२९ ॥
- श्लोक 130कुंडली के 1 पठनशक्रेड्यः ससितः शुचिस्तिमियुगे स्वोच्चे च पूर्णः शशीदृष्टस्तीव्रविलोचनेन दिनकृन्मेषे यदासौ नृपः ।सेनायाश्चलनेन रेणुपटलैर्यस्य प्रनष्टे रवा-वस्तभ्रान्तिसमाकुला कमलिनी सङ्कोचमागच्छति ॥ १३० ॥
- श्लोक 131कुंडली के 1 पठनक्रूरैर्नीचै रिपुभवनगैः षष्ठदुश्चिक्यगैर्वासौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैश्च ।आज्ञां याते शिशिरकिरणे कर्कटस्थे निशाया-मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥ १३१ ॥
- श्लोक 132कुंडली के 1 पठनहोरालेखामुपेतः स्फुटकरनिकरैः पूरिताङ्गः सुरेज्यःचन्द्रः शुक्लार्धदेहो भवभवनगतः स्वेन पुत्रेण दृष्टः ।चन्द्राद्भानुर्द्वितीये यदि भवति तदा नैव दृष्टः कुजेनपाता जायेत भूमेर्बहुगजतुरगक्षुण्णभूपृष्ठपीठः ॥ १३२ ॥
- श्लोक 133कुंडली के 1 पठनरविशशिकुजैर्मेषे लग्ने सितार्किबुधैर्वृषेधनुषि नवमे देवेज्ये च स्वभांशमुपागते ।रविरपि यदि स्वोच्चे वर्गे प्रधानबलोदयोभवति नृपतिः सिद्धाज्ञातो हतारिरणोद्भवः ॥ १३३ ॥
- श्लोक 134कुंडली के 1 पठनसितशशिसुतजीवैः पञ्चमस्थैर्नभोगैरविरपि रिपुराशौ स्वोच्चगे भूमिपुत्रे ।तपसि च रविपुत्रे जायते पार्थिवेन्द्रःप्रथितविमलकीर्तिर्दानधर्मप्रतापैः ॥ १३४ ॥
- श्लोक 135कुंडली के 1 पठनत्रिदशगुरो रविर्हिमकरस्य भृगोस्तनयोरवितनयः कुजस्य खलु दृष्टिपथं च गतः ।भवति विलग्नगो यदि चरोदयराशिगतःप्रथितयशा भवेत् क्षितिपतिः क्षपितारिगणः ॥ १३५ ॥
- श्लोक 136कुंडली के 1 पठनबुधः कन्यालग्ने सुरपतिगुरुश्चैव तिमिगःस्थितः क्षोणीपुत्रः प्रसवसमये वीर्यसहितः ।शनिः शत्रुस्थाने त्रिदशरिपुपूज्यश्च हिबुकेयदैवं स्यात्सूतौ स्वभुजविजयी भूपतिरिह ॥ १३६ ॥
- श्लोक 137कुंडली के 1 पठनयमे विलग्ने मकरप्रतिष्ठितेदिवाकरे द्यूनगते सितेऽष्टमे ।कुजेऽलिगे कर्कटगे निशाकरेभवेत्प्रसिद्धो जगतीश्वरो नृपः ॥ १३७ ॥
- श्लोक 138कुंडली के 1 पठनमृगोदये भूमिसुते सुनिर्मले शनैश्चरे धर्मगृहे व्यवस्थिते ।दिवाकरे सप्तमगे सहेन्दुना चलस्वभावो नृपतिः प्रजायते ॥ १३८ ॥
- श्लोक 139कुंडली के 1 पठनशनैश्चरे लग्नगते सचन्द्रे बृहस्पतौ सप्तमराशिगे च ।शुक्रेण दृष्टे शशिजे स्वतुङ्गे जायेत पृथ्वीपतिरप्रधृष्यः ॥ १३९ ॥
- श्लोक 140कुंडली के 1 पठनचापे भवेत्सुरगुरुर्हतदृष्टिशुद्धोलग्ने सुरारिदयितः शशिनि स्वराशौ ।वापीतडागसुरवेश्मकरो नरोऽत्रजायेत मानवपतिर्द्विजदेवभक्तः ॥ १४० ॥
- श्लोक 141कुंडली के 1 पठनएकः स्वोच्चे शुभगगनगः संस्थितो निर्मलांशुःकेन्द्रे भानुः प्रकटितकरः केवलः पूर्णवीर्यः ।दृष्टः कुर्यादमरगुरुणा पञ्चमस्थेन जातंभूमेर्नाथं बहुगजपतिं सर्ववन्द्यं कृतार्थम् ॥ १४१ ॥
- श्लोक 142कुंडली के 1 पठनषष्ठे कुजार्किरवयः सहजेऽथवाऽपिसिंहे सुरारिसचिवोऽथ भवर्क्षसंस्थः ।दृष्टः शुभैर्दिनकरेन्दुविहीनदृष्टिःकुर्यान्नृपं स्वभुजनिर्जितशत्रुपक्षम् ॥ १४२ ॥
- श्लोक 143कुंडली के 1 पठनवहति मृदुसमीरो निर्मलव्योममध्येविमलनिरुपसर्गाः खेचरा वृत्तवैराः ।उदयति सुरवन्द्ये मण्डले मातृकाणांयदि वृषभगृहस्थो भार्गवः स्यात् क्षितीशः ॥ १४३ ॥
- श्लोक 144कुंडली के 1 पठनशशिबुधरुधिराख्यैः स्वांशकस्थैर्न नीचैःव्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः ।तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्तेभवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥ १४४ ॥
- श्लोक 145कुंडली के 1 पठनअधिमित्रगते केन्द्रे जन्माधिपतिर्विलग्नपतियुक्तः ।पश्यति बलपरिपूर्णो लग्नं स्यात्पुष्कलो योगः ॥ १४५ ॥
- श्लोक 146कुंडली के 1 पठनपुष्कलयोगे पुरुषा जायन्ते भूमिपालका नित्यम् ।सुचिरं भ्रमन्ति हतरिपुगजमदगन्धेन वासितदिगन्ताः ॥ १४६ ॥
- श्लोक 147कुंडली के 1 पठनराश्यादौ लग्नपतिः करोति जातं नरेन्द्रदण्डपतिम् ।मध्ये मण्डलनाथं ग्रामपतिं चैव भवनान्ते ॥ १४७ ॥
- श्लोक 148कुंडली के 1 पठनपौष्णे फाल्गुन्यां वा मूले पुष्ये च भास्करः कुरुते ।लग्नगतो नरनाथं योजनशतमात्रके देशे ॥ १४८ ॥
- श्लोक 149कुंडली के 1 पठनकृत्तिकारेवतीस्वातीपुष्यस्थायी भृगोः सुतः ।करोति भूभुजां नाथमश्विन्यामपि संस्थितः ॥ १४९ ॥
- श्लोक 150कुंडली के 1 पठनविदधाति सार्वभौमं लग्नांशपतिः स्वतुङ्गगः केन्द्रे ।नृपतिं लग्नाधिपतिर्जन्माधिपतिर्धनसमृद्धम् ॥ १५० ॥
- श्लोक 151कुंडली के 1 पठनमीने निशाकरः पूर्णः सुहृद्ग्रहनिरीक्षितः ।सार्वभौमं नरं कुर्यात्सिद्धाज्ञानात्र संशयः ॥ १५१ ॥
- श्लोक 152कुंडली के 1 पठनयाते भौमे कर्मस्थानंशिशिरकरभृगुसुतैस्तपः समवस्थितैः ।आये स्वोच्चे प्राप्तो भानु-स्त्रिदशपतिसचिवसहितो यदि प्रसवे भवेत् ॥ १५२ ॥
- श्लोक 153कुंडली के 1 पठनक्षोणीभर्त्ता याने यस्यप्रविचलिततुरगरजसा दिशः परितो गतः ।एवं कर्तुंभूयो भूयोधरणितलपरिमलसुखं प्रयान्ति रवेर्हयाः ॥ १५३ ॥
- श्लोक 154कुंडली के 1 पठनशशिसहिते केन्द्रस्थे शनैश्चरे भवति जारजातस्तु ।राजा भुवि गजतुरगग्रामधनैर्वर्द्धितश्रीकः ॥ १५४ ॥
- श्लोक 155कुंडली के 1 पठनशुक्रवाक्पतिबुधैर्धनसंस्थैर्द्यूनगैः शशिरविक्षितिपुत्रैः ।जायते क्षितिपतिः पृथुवक्षाः सर्वतः क्षपितशत्रुसमूहः ॥ १५५ ॥
- श्लोक 156कुंडली के 1 पठनभानुः प्राणी शशिगृहयुतः शीतरश्मिश्च तस्मिन्एकः स्वोच्चे यदि गगनगो निर्मलः पूर्णरश्मिः ।लग्नं प्राप्तः सुरपतिगुरुः षष्ठगः स्यात्क्षितीशःछन्नो यस्य प्रचलितचमू रेणुभिर्व्योममार्गः ॥ १५६ ॥
- श्लोक 157कुंडली के 1 पठनकुम्भस्याष्टमभागे त्रिकोणसंस्थे ( पिच ) निशानाथे ।जातो भवत्यवश्यं राजा शुभदः समस्तलोकस्य ॥ १५७ ॥
- श्लोक 158कुंडली के 1 पठनमेषस्य सप्तमांशे करोति पृथ्वीसुतः स्थितो नृपतिम् ।सिंहस्य पञ्चमांशे नरमिथुनांशे भवेद्भूपः ॥ १५८ ॥
- श्लोक 159कुंडली के 1 पठनकुम्भस्य पञ्चदशके भागे चन्द्रस्थितो महीपालम् ।कर्कटकस्य च दशमे करोति पुरुषं सदा प्रभवे ॥ १५९ ॥
- श्लोक 160कुंडली के 1 पठनधनुषि च विंशे जीवः करोति नृपतिं स्थितो जनख्यातम् ।सिंहस्य पञ्चमांशे तथा च हेलिर्बुधो ज्ञेयः ॥ १६० ॥
- श्लोक 161कुंडली के 1 पठनएकस्मिन् पञ्चकृतौ पञ्चदशस्वास्थितश्चन्द्रः ।भागेषु वीरनृपतिं करोति भुजलब्धपृथ्वीकम् ॥ १६१ ॥
- श्लोक 162कुंडली के 1 पठनमकरस्य पञ्चमांशे करोति पुरुषं नरेश्वरं सुनयम् ।योगे भूतलतिलकं धर्मज्ञं शास्त्रनिरतं च ॥ १६२ ॥
- श्लोक 163कुंडली के 1 पठनकर्कटके शशिजीवौ पञ्चसु भागेषु संस्थितौ कुरुतः ।भूमिपतिमप्रधृष्यं रविरिव सर्वग्रहगणस्य ॥ १६३ ॥
- श्लोक 164कुंडली के 1 पठनचन्द्रः पुष्ये नृपतिं वर्गोत्तमकृत्तिकाश्विनीसंस्थः ।विदधाति सार्वभौमं त्रिपुष्करे वाऽपि परिपूर्णः ॥ १६४ ॥
- श्लोक 165कुंडली के 1 पठनअश्विन्यनुराधास्थः स्थितः श्रविष्ठासु पार्थिवं भौमः ।कुरुते स्वोच्चमुपगतो वर्गोत्तमगश्च नान्यत्र ॥ १६५ ॥
- श्लोक 166कुंडली के 1 पठनव्योम्नि शंखधवलो निशाकरो भार्गवस्तपसि संस्थितः शुचिः ।आयगाश्च यदि सर्व एव ते स्यान्महीपतिरतुल्यपौरुषः ॥ १६६ ॥
- श्लोक 167कुंडली के 1 पठनचन्द्रादुपचयसंस्था गगनसदः सर्व एव यदि सूतौ ।जायेत माननिलयः समस्तपृथ्वीपतिः पुरुषः ॥ १६७ ॥
- श्लोक 168कुंडली के 1 पठनजीवनिशाकरसूर्याः पञ्चमनवमतृतीयगा वक्रात् ।यदि भवति तदा राजा कुबेरतुल्यो धनैर्वासौ ॥ १६८ ॥
- श्लोक 169कुंडली के 1 पठनरविस्तृतीये भृगुनन्दनः सुखे बुधस्य चान्ये यदि पञ्चमे स्थिताः ।न नीचराशौ न च शत्रुवेश्मगा भवेन्नरेन्द्रस्त्रिसमुद्रपारगः ॥ १६९ ॥
- श्लोक 170कुंडली के 1 पठनबृहस्पतेर्भौमदिवाकरेन्दवो गता द्वितीयाम्बुनभःस्थलं क्रमात् ।विपक्षराशौ परिशेषखेचरा यदा तदा भूमिपतिर्नृपात्मजः ॥ १७० ॥
- श्लोक 171कुंडली के 1 पठनभृगोरपत्याद्बुधभास्करात्मजौ चतुष्टयस्थौ परिशेषखेचराः ।तृतीयलाभर्क्षगतास्तु ते यदा महीपतिं कुर्युरसंशयं तदा ॥ १७१ ॥
- श्लोक 172कुंडली के 1 पठनशुक्रबुधौ रवितनयात्केन्द्रे वाचस्पतिर्भवेदुच्चे ।सिंहासनाधिशायी यदि राजा स्वोच्चगाश्च परिशेषाः ॥ १७२ ॥
- श्लोक 173कुंडली के 1 पठनसवितुस्तृतीयपञ्चमलाभर्क्षसमाश्रिताः सदा यस्य ।सर्वे ग्रहाः स नृपतिर्मन्त्री सेनापतिर्वाऽपि ॥ १७३ ॥
- श्लोक 174कुंडली के 1 पठनलग्नपतेः स्फुटरश्मेः पापा लाभे शुभाश्च केन्द्रस्थाः ।यदि भवति तदा नृपतिः स्वभुजार्जितसर्वभूमितलः ॥ १७४ ॥
- श्लोक 175कुंडली के 1 पठनलाभे तृतीयषष्ठे यदि पापा जन्मपस्य शुभदृष्टाः ।भवति तदा धरणीशः समस्तनृपवन्दितः साधुः ॥ १७५ ॥
- श्लोक 176कुंडली के 1 पठनविचरति सुरपूज्यो मेषभेऽथापि सिंहेदहनकिरणदृष्टे भूमिपुत्रे स्वराशौ ।न च गगनविचारी कश्चिदेकोऽपि नीचेयदि नृपतिसमुत्थो जायते पार्थिवेन्द्रः ॥ १७६ ॥
- श्लोक 177कुंडली के 1 पठनचन्द्राद्ग्रहैर्निगदिताः सुनफादयश्चकेन्द्रस्थितैर्यदि भवन्ति च तेऽत्र योगाः ।विश्वम्भराधिपकुलेषु महत्सु जातायोगेषु तेषु मनुजेश्वरतां लभन्ते ॥ १७७ ॥
- श्लोक 178कुंडली के 1 पठनकेन्द्रगौ यदि तु जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ ।भूपतिर्भवति सोऽतुलकीर्तिर्नीचगो यदि न कश्चिदिह स्यात् ॥ १७८ ॥
- श्लोक 179कुंडली के 1 पठनउदयशिखरिसंस्थो भार्गवो यत्र तत्रबुधरविसुतदृष्टः स्वांशकस्थोऽतिवीर्यः ।जनयति नरनाथं वाक्पतौ पञ्चमस्थेभुजबलहतशत्रुं सार्वभौमं गजाढ्यम् ॥ १७९ ॥
- श्लोक 180कुंडली के 1 पठनसिंहे कमलिनीनाथः कुलीरस्थो निशाकरः ।दृष्टौ द्वावपि जीवेन पार्थिवं कुरुतस्तदा ॥ १८० ॥
- श्लोक 181कुंडली के 1 पठनबुधः कर्कटमारूढो वाक्पतिश्च धनुर्धरम् ।सूर्यभूसुतदृष्टौ च यदि स्फीतो महीपतिः ॥ १८१ ॥
- श्लोक 182कुंडली के 1 पठनशफरीयुगले चन्द्रः कर्कटे च बृहस्पतिः ।शुक्रः कुम्भे यदा शक्तस्तदा राजा भवेदिह ॥ १८२ ॥
- श्लोक 183कुंडली के 1 पठनसितदृष्टः शनिः कुम्भे पद्मिनीदयितो भवे ।चन्द्रे जलचरे राशौ यदि जातो नृपो भवेत् ॥ १८३ ॥
- श्लोक 184कुंडली के 1 पठनकुजोऽलिगोऽथ मेषे वा रविजीवनिरीक्षितः ।वृषे ज्ञः जीवसंदृष्टस्तदाऽपि पृथिवीपतिः ॥ १८४ ॥
- श्लोक 185कुंडली के 1 पठनअमलवपुरवक्रः कैरवाणां विकासीस्वगृहमथनवांशं स्वोच्चभांशं गतो वा ।हितगगननिवासैः पञ्चभिर्दृश्यमानोजनयति जगतीशं नीचभे नो यदि स्यात् ॥ १८५ ॥
- श्लोक 186कुंडली के 1 पठनलाभे मन्दो गुरुभृगुसुतावुद्गमे खे शशाङ्कोबन्धावर्कौ बुधकुतनयौ वक्रगौ चेत्स भूपः ।यत्सेनायास्ततमदजलक्षोभतो वारणेन्द्रैःभूयः सेतोः स्मरति सहसा क्षोभितान्तोऽम्बुराशिः ॥ १८६ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।