अध्याय 34: लोकयात्राध्यायः

सारावली · Saravali (Worldly life)

78 श्लोक

  1. श्लोक 1कुंडली के 1 पठनरविदृष्टे प्राग्लग्ने विक्रान्तस्त्रीषु रोषणः क्रूरः ।पितृपक्षलब्धविभवो नरेन्द्रसेवी भवेज्ञातः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनस्त्रीणां वश्यः सुभगो दाक्षिण्यमहोदधिः प्रचुरकोशः ।चन्द्रेक्षिते विलग्ने मार्दवजलपण्यवान् भवति ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनसाहससङ्ग्रामरुचिश्चण्डस्फुटबान्धवोऽतिधर्मरतः ।उदये कुजसन्दृष्टे भवति नरः स्थूलशेफश्च ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनबुधदृष्टे प्राग्लग्ने शिल्पकलाविद्यया समभिपूर्णः ।भवति नरो विपुलमतिः कीर्तिकरो मानसंयुक्तः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनइज्याव्रतनियमपरा नृपपूज्याः ख्यातकीर्त्तयो मनुजाः ।लग्ने सुरगुरुदृष्टे सज्जनगुर्वतिथिसंयुक्ताः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनवेश्यास्त्रीजनबहुलास्तरुणाः सम्पन्नभोगधनसौख्याः ।शुक्रेक्षिते विलग्ने भवन्ति मनुजाः सुरूपाश्च ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनभाराध्वरोगतप्ताः क्रुद्धा वृद्धरमणीयुता विसुखाः ।मन्देक्षिते विलग्ने मलिना मूर्खाश्च जायन्ते ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनपश्यन् ग्रहः स्वलग्नं सर्वं विदधाति सौख्यमर्थं च ।प्रायो नृपप्रियत्वं पापः पापं शुभं च शुभः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनएकेनापि न दृष्टं समस्तगुणवर्जितं लग्नम् ।स्वगृहस्वभावसहितं जनयति खलु केवलं नित्यम् ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनद्व्यादिग्रहसन्दृष्टं प्रायेण सुखार्थदं भवति लग्नम् ।एकेनापि शुभेन च न तु पापैरिष्यते सद्भिः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनसर्वैर्गगनभ्रमणैर्दृष्टे लग्ने भवेन्महीपालः ।बलिभिः समस्तसौख्यो विगतभयो दीर्घजीवी च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनलग्ने त्रयो विगतशोकविवर्द्धितानांकुर्वन्ति जन्मशुभदाः पृथिवीपतीनाम् ।पापास्तु रोगभयशोकपरिप्लुतानांबह्वाशिनां सकललोकतिरस्कृतानाम् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनलग्नात् षष्ठमदाष्टमे यदि शुभाः पापैर्न युक्तेक्षिताःमन्त्री दण्डपतिः क्षितेरधिपतिः स्त्रीणां बहूनां पतिः ।दीर्घायुर्गदवर्जितो गतभयो लग्नाधियोगे भवेत्सच्छीलो यवनाधिराजकथितो जातः पुमान् सौख्यभाक् ॥ १३ ॥
  14. श्लोक 14स्वगृहोच्चसौम्यवर्गे ग्रहः फलं पुष्टमेव विदधाति ।नीचर्क्षरिपुगृहस्थो विगतफलः कीर्तितो मुनिभिः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनरविरविजभूमितनयाः कुटुम्बसंस्था विलोकनाद्वाऽपि ।कुर्वन्ति धनविनाशं क्षीणेन्दुनिरीक्षिता विशेषेण ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनरविभौमौ धनसंस्थौ त्वग्दोषदरिद्रताकरौ कथितौ ।मन्दः कुरुते शुद्धो महार्थयुक्तं बुधेक्षितस्तत्र ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनरविरपि विधनं जनयति यमेक्षितः शस्यतेऽन्यदृष्टश्च ।सौम्याः कुटुम्बराशौ बहुप्रकारं धनं दद्युः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनबुधदृष्टस्त्रिदशगुरुः कुटुम्बराशौ च निःस्वतां कुरुते ।सोमतनयोऽपि शशिना निरीक्षितो हन्ति सर्वधनम् ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनचन्द्रोऽपि धनस्थाने क्षीणोऽपि बुधेक्षितः सदा कुरुते ।पूर्वार्जितार्थनाशं निरोधमपि चान्यवित्तस्य ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनशुक्रः कुटुम्बभवने चन्द्रेण निरीक्षितः प्रधनदाता ।सौम्यग्रहेण दृष्टः स एव धनदः सदा ज्ञेयः ॥ २० ॥
  21. श्लोक 21पापभवनं तृतीयं समस्तपापैर्युतं सहजहन्तृ ।विपरीतमितः श्रेष्ठं संख्यां तेषां प्रवक्ष्यामि ॥ २१ ॥
  22. श्लोक 22यावन्तो नवभागा यदागताः सहजराशौ तु ।तत्संख्यां कुर्वन्ति च दृष्टास्त्वन्यैस्तथा बहवः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनतत्र स्थितो रविसुतः कुजेन दृष्टो विनाशयति जातान् ।शुक्रो गुरुसंदृष्टः पुष्णाति सदैव दायादान् ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनसौम्यो भास्करदृष्टः सुहृदां परिसंक्षयं सदा कुरुते ।भावाध्याये कथितं शेषं परिकल्पयेदत्र ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनसुतभवनं शुभयुक्तं शुभदृष्टं वा शुभर्क्षमिह येषाम् ।तेषां प्रसवः पुंसां भवत्यवश्यं न विपरीते ॥ २५ ॥
  26. श्लोक 26एकतमे गुरुवर्गे शुभराशावौरसो भवेत्पुत्रः ।लग्नाच्चन्द्रादथवा बलयोगाद्वीक्षितेऽपि वा सौम्यैः ॥ २६ ॥
  27. श्लोक 27संख्या नवांशतुल्या सौम्यांशे तावती सदा दृष्टा ।शुभदृष्टे तद्द्विगुणा क्लिष्टा पापांशकेऽथवा दृष्टे ॥ २७ ॥
  28. श्लोक 28सौरर्क्षे सौरगणो बुधदृष्टो गुरुकुजार्कदृग्घीनः ।क्षेत्रजपुत्रं जनयति बौधोऽपि गणो रविजदृष्टः ॥ २८ ॥
  29. श्लोक 29मान्दं सुतर्क्षमिन्दुर्निरीक्षिते यदि शनैश्चरेण युतम् ।दत्तकपुत्रोत्पत्तिः क्रीतस्य बुधेन चैवं स्यात् ॥ २९ ॥
  30. श्लोक 30सप्तमभागे कौजे सौरयुते पञ्चमे सदा भवने ।कृत्रिमपुत्रं विन्द्याच्छेषग्रहदर्शनान्मुक्ते ॥ ३० ॥
  31. श्लोक 31वर्गे पञ्चमराशौ सौरे सूर्येण वाऽत्र संयुक्ते ।लोहितदृष्टे वाच्यो जातस्य सुतोऽधमप्रसवः ॥ ३१ ॥
  32. श्लोक 32चन्द्रे भौमांशगते धीस्थे मन्दावलोकिते भवति ।गूढोत्पन्नः पुत्रः शेषग्रहदर्शनं याते ॥ ३२ ॥
  33. श्लोक 33तस्मिन्नेव च भौमे शनिवर्गस्थे निरीक्षिते रविणा ।पुरुषस्य भवति पुत्रोपविद्ध इति करुणमुनिवचनात् ॥ ३३ ॥
  34. श्लोक 34शनिवर्गस्थे चन्द्रे शनियुक्ते पञ्चमे सदा भवने ।शुक्ररविभ्यां दृष्टे पुत्रः पौनर्भवो भवति ॥ ३४ ॥
  35. श्लोक 35चूडायदार्कसक्ता कला च तस्यैव पञ्चमे गेहे ।रविदृष्टेऽप्यथ सहिते कानीनः सम्भवति पुत्रः ॥ ३५ ॥
  36. श्लोक 36वर्गे रविचन्द्रमसोः सुतगेहे चन्द्रसूर्यसंयुक्ते ।शुक्रेण दृष्टिमात्रे पुत्रः कथितः सहोढश्च ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनपापैर्बलिभिर्युक्ते पापर्क्षे पञ्चमे सदा राशौ ।जातोऽपुत्रः पुरुषः सौम्यग्रहदर्शनातीते ॥ ३७ ॥
  38. श्लोक 38शुक्रनवांशे तस्मिन् शुक्रेण निरीक्षिते त्वपत्यानि ।दासीप्रभवानि वदेच्चन्द्रादपि केचिदाचार्याः ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनसितशशिवर्गे धीस्थे ताभ्यां दृष्टेऽथवाऽपि संयुक्ते ।प्रायेण कन्यकाः स्युः समराशिगणेऽपि चान्यथा पुत्राः ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनलग्नाद्दशमे चन्द्रे सप्तमसंस्थे भृगोः पुत्रे ।पापैः पातालस्थैर्वंशच्छेत्ता भवेज्ञातः ॥ ४० ॥
  41. श्लोक 41भौमः पञ्चमभवने जातं जातं विनाशयति पुत्रम् ।दृष्टे गुरुणा प्रथमं सितेन न च सर्वसंदृष्टः ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनधनजनसुखहीनः पञ्चमस्थैश्च पापै-र्भवति विकल एव क्ष्मासुते तत्र जातः ।दिवसकरसुते च व्याधिभिस्तप्तदेहःसुरगुरुबुधशुक्रैः सौख्यसम्पद्धनाढ्यः ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनरिपुभावे क्षितिसूनुर्मन्देन निरीक्षितो दिशति शत्रून् ।शुभयुक्तः शुभदृष्टः शत्रुभयं चैव नात्यन्तम् ॥ ४३ ॥
  44. श्लोक 44क्षेत्रे ग्रहेन्द्रतुल्यां संख्यां तेषां विनिर्दिशेत्प्राज्ञः ।भावाध्यायेऽभिहितं विस्तरतश्चिन्तयेच्छेषम् ॥ ४४ ॥
  45. श्लोक 45शुक्रेन्दुजीवशशिजैः सकलैस्त्रिभिश्चद्वाभ्यां कलत्रभवने च तथैककेन ।एषां गृहेऽपि च गणेऽपि विलोकिते वासन्ति स्त्रियो भवनवर्गखगस्वभावाः ॥ ४५ ॥
  46. श्लोक 46एवं क्रूरैर्नाशो लग्नाच्चन्द्राद्भवेच्च बलयोगात् ।शशिरविजयोः कलत्रे भार्यापुंसां पुनर्भूः स्यात् ॥ ४६ ॥
  47. श्लोक 47भवनाधिपांशतुल्या भवन्ति नार्यो निरीक्षणाद्वाऽपि ।एकैवरविकुजांशे गुरुबुधयोश्चापि यामित्रे ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनप्रायेण चन्द्रसितयोर्वर्गे युक्तेऽथवापि जामित्रे ।दृष्टे वा बहुपत्न्यो भवन्ति शुक्रे विशेषेण ॥ ४८ ॥
  49. श्लोक 49गुरुशुक्रयोः स्ववर्णा रविकुजशशिभानुजैर्भवन्त्यूनाः ।शुक्रे वेश्याप्रायश्चन्द्रेऽपि वदन्ति केतुमालाख्याः ॥ ४९ ॥
  50. श्लोक 50भौमे कलत्रसंस्थे नित्यं वियुतो भवेत्तदापुरुषः ।म्रियते वाशनिदृष्टे योषिदवश्यं न दृष्टेन्यैः ॥ ५० ॥
  51. श्लोक 51द्यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः ।धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम् ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनलग्नाद्व्ययरिपुगतयोः शशाङ्कभान्वोः वदन्ति पुरुषस्य ।प्रभवं समस्तमुनयः क्रमेण पत्न्या सहैकतनयस्य ॥ ५२ ॥
  53. श्लोक 53लग्नस्थे रवितनये गण्डान्ते भार्गवे कलत्रगते ।वन्ध्यापतिस्तदा स्याद्यदि न सुतर्क्षं शुभैर्युक्तम् ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनलग्नव्ययदशमस्थैः पापैः क्षीणे निशाकरे धीस्थे ।स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम् ॥ ५४ ॥
  55. श्लोक 55यमभूमिजयोर्वर्गे द्यूनस्थे तदवलोकिते शुक्रे ।जातो भवत्यवश्यं पत्न्या सह पुंश्चलः पुरुषः ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनबुधभार्गवयोरस्ते स्त्रीहीनो जायते ह्यपुत्रश्च ।दृष्टे शुभैश्च वाच्याः परिणतवयसः सदा प्रमदाः ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनभार्गववाक्पतिसौम्यैः प्रमदाभवने शशाङ्कयुक्तैश्च ।एकैकेनैतेषां पुरुषस्य विभूतयो बहुलाः ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनरविदृष्टे युक्ते वाऽप्यायक्षेत्रे भवेत्सदा नृपतेः ।भवति धनं युद्धाद्यैश्चोरधनचतुष्पदाद्यैश्च ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनस्त्रीजनहस्तिप्रायं शशाङ्कवर्गे शशीक्षिते युक्ते ।क्षीणे क्षयोऽथ पूर्णे वृद्धिः स्यादायगे वृत्तेः ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनहेमप्रवालभूषणमाणिक्यधनं कुजे भवेदेवम् ।साहसगमनागमनैः पावकशस्त्रैश्च वक्तव्यम् ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनआये बुधेऽपि वर्गे दृष्टे युक्तेऽथवा भवेन्नित्यम् ।शिल्पादिलेख्यकाव्यैर्युक्तिप्रायं तथा सुतराम् ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठननगरजनैर्योगभोगैः क्रतुभिश्च तथा विशिष्टपुण्यैश्च ।हेमप्रायं वित्तं जीवेऽपि तुरङ्गमाकीर्णम् ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनवेश्यास्त्रीसंयोगैर्गमनागमनैर्धनं भवति पुंसाम् ।आये सितेऽपि चैवं मुक्तारजतादि भूयिष्ठम् ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठननगरपुरवृन्दयोगैः स्थावरकर्मक्रियाभिरपि वित्तम् ।लोहखरवृंदबहुलं रविजेऽपि तथाऽस्यवर्गे च ॥ ६४ ॥
  65. श्लोक 65एवं फलनिर्देशः सौम्यैर्दृष्टे विशेषतो वाच्यः ।क्रूरैश्च समुपघातो मिश्रैर्मिश्रस्तदा पुंसाम् ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनसर्वग्रहयुतदृष्टे बहुप्रकारेण निर्दिशेद्वित्तम् ।बलवान्यस्तत्र भवेदतिरिक्तं सम्प्रयच्छति च ॥ ६६ ॥
  67. श्लोक 67मित्रस्वगृहगतोर्द्धं स्वोच्चे पूर्णं तथास्तगः किञ्चित् ।शत्रुगृहस्थश्चरणं ददाति विहगस्तदाये तु ॥ ६७ ॥
  68. श्लोक 68आजन्मतो नराणां भवति धनं निश्चितं यवनवृद्धैः ।क्षितिपतिमाण्डलिकानामपरिमितं प्राह लोकाक्षः ॥ ६८ ॥
  69. श्लोक 69कुंडली के 1 पठनभानौ क्षीणे चेन्दौ व्ययभवने भूपतिर्हरति वित्तम् ।भौमे बुधसंदृष्टे बहुप्रकारो भवेन्नाशः ॥ ६९ ॥
  70. श्लोक 70कुंडली के 1 पठनगुरुचन्द्रदानवेज्या व्ययभवने वित्तपोषणं कुर्युः ।भूमितनयेन दृष्टा भावाध्यायोक्तमन्यच्च ॥ ७० ॥
  71. श्लोक 71कुंडली के 1 पठनलग्ने बुधद्रेक्काणे शशिना दृष्टे चतुष्टयस्थाने ।जातो नृपतिकुलेष्वपि शिल्पी स्यान्निश्चितं मुनिभिः ॥ ७१ ॥
  72. श्लोक 72नीचे सौरनवांशे शुक्रेऽन्त्ये रविशशाङ्कयोर्मदने ।मन्देन विलोकितयोर्माता दासी महाकुलेऽपि स्यात् ॥ ७२ ॥
  73. श्लोक 73कुंडली के 1 पठनसूर्याद्द्वितीयराशौ भास्करतनये खमध्यगे चन्द्रे ।भौमे सप्तमभवने विकलोऽस्मिन्सर्वदा जातः ॥ ७३ ॥
  74. श्लोक 74कुंडली के 1 पठनमध्ये पापग्रहयोश्चन्द्रे मदनस्थितेऽर्कजे जन्तोः ।श्वासक्षयविद्रधिना गुल्मप्लीहातिपीडितस्सुभगः ॥ ७४ ॥
  75. श्लोक 75कुंडली के 1 पठनसूर्यांशे यदि चन्द्रश्चन्द्रांशे भास्करो यदि श्लेष्मी ।सममेकराशिगतयोर्दुर्बलदेहः सदा पुरुषः ॥ ७५ ॥
  76. श्लोक 76कुंडली के 1 पठननिधनधनारिव्ययगा रविचन्द्रकुजार्कजा नियतम् ।नयनविघातं कुर्युर्बलवद्ग्रहदोषसंभूतम् ॥ ७६ ॥
  77. श्लोक 77कुंडली के 1 पठनधर्मायसहजसुतगाः पापाः सौम्यैर्न वीक्षिता जन्तोः ।श्रवणविनाशं कुर्युः सप्तमसंस्थाश्च दन्तानाम् ॥ ७७ ॥
  78. श्लोक 78कुंडली के 1 पठनउदये दिनकरपुत्रे त्रिकोणभवने कुजे च सोन्मादः ।क्षीणे शशिनि ससौरे याते वा व्ययगृहे जातः ॥ ७८ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।