अध्याय 31: अन्तरयोगाध्यायः
सारावली · Saravali (Combinations between planets)
87 श्लोक
- श्लोक 1होरा चतुर्थसप्तमदशमेषु यथा द्वयोर्द्वयोर्ग्रहयोः ।भवति फलसम्प्रयोगो जातस्य तथायमुपदेशः ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनमातृपितृदुःखतप्तः सूर्येन्द्वोरुदयसंस्थयोर्मनुजः ।मानसुतविभवहीनः परिभूतो जायते दुःखी ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनबान्धवसुतसुखहीनो दारिद्र्ययुतो महाजडप्रकृतिः ।चन्द्रे रसातलस्थे भास्करसहिते पुमान् जातः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनमित्रैः सुतैश्च हीनः परिभूतो युवतिभिः सदा पुरुषः ।चन्द्रे सप्तमभवने दिनकरसहिते भवेद्दीनः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनसुशरीरं बलनाथं राजसिकं निर्दयं विषमशीलम् ।सूर्येन्दू गगनस्थौ कुरुतः क्षपितारिपक्षं च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनरविभौमयोर्विलग्ने पित्तप्रकृतिर्महाहवे शूरः ।क्रोधी विक्षतगात्रः क्रूरश्च शठः कठोरः स्यात् ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनबन्धुजनवित्तहीनः समस्तसुखवर्जितः क्षुभितः ।कुजसूर्ययोश्चतुर्थे भवति पुमान् सर्वतो द्वेष्यः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनस्त्रीविरहदुःखखिन्नः स्त्रीहेतोः परिभवं सदा प्राप्तः ।रविरुधिरयोर्युवत्यां विदेशगमने रतो भवति ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनविफलारम्भो भृतको नित्योद्विग्नः प्रधाननृपसेवी ।भूतनयदिवाकरयोः कर्मणि गतयोर्भवेद्विकलः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनप्राज्ञो बहुप्रलापी कठिनांगः शूरवल्लभो मतिमान् ।लग्ने बुधदिनकरयोर्दीर्घायुः संभवेत्पुरुषः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठननृपतिसमो विख्यातो गृहीतकाव्यः कुबेरसमविभवः ।रविशशितनयौ हिबुके स्थूलतनुर्वक्रनासश्च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनवधबन्धनकृन्मृत्युर्गृहीतवाक्यो न चातिधनलुब्धः ।स्त्रीरतिहीनश्चोरो द्यूने बुधसूर्ययोर्भवति ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनत्रिषु लोकेषु ख्यातो गजाश्वनाथो भवेन्महीपालः ।दिनकरबुधयोर्दशमे न नीचराशिस्थयोरेव ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनजीवार्कयोर्गुणयुतो मन्त्री बलनायकोऽथवा साधुः ।लग्नस्थयोः प्रसूतौ विद्याधनभोगवान् ख्यातः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनश्रुतिनीतिकाव्यनिरतं भव्यं जनसम्पदं प्रियालापम् ।हिबुके सुरेज्यसूर्यौ निभृताचारं नरं कुरुतः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनजीवार्कयोर्युवत्यां मदनवशात् स्त्रीजितः पितृद्वेषी ।कनकमणिरजतमौक्तिकसमन्वितः शुभशरीरः स्यात् ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनकीर्तिसुखमानविभवैः समन्वितः पार्थिवो भवेन्नभसि ।रविदेवपुरोहितयोर्निन्द्येऽपि कुले नरो जातः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनप्रियकलहस्त्वविनीतो मलिनाचारः सुदुःखितो नीचः ।लग्ने रविभृगुसुतयोरत्यर्थकलत्रसम्परित्यक्तः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनआदित्ये हिबुकस्थे भार्गवसहिते भवेन्नरो जातः ।परभृत्यः शोकार्त्तः लोकद्वेष्यो दरिद्रश्च ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनस्त्रीभिः सम्परिभूतो द्रविणविहीनो बृहत्तनुर्द्वेष्यः ।शैलवनेषु च विचरति रविसितयोः सप्तमस्थाने ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनकर्मणि दिनकरसितयोः व्यवहाररतो नरेन्द्रसचिवः स्यात् ।शास्त्रकलानिपुणमतिर्धनवाहनसौख्यसम्पन्नः ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठननिन्दितजननीपुत्रः कुत्सितवृत्तिः सदा मलिनबुद्धिः ।लग्ने सूर्यार्कजयोः पापाचारो भवेत्पुरुषः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनसौरिश्चतुर्थराशौ भास्करसहिते पुमान् भवति नीचः ।दारिद्र्यविहितमूर्त्तिः स्वबन्धुभिश्चापि परिभूतः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनभान्वर्कजयोर्मदने मन्दालसदुर्भगाश्च जायन्ते ।युवतिधनैः सन्त्यक्ता मृगयाभिरता महामूर्खाः ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनभानुः स्वपुत्रसहितो गगने भृतकं विदेशगं जनयेत् ।नृपतेः क्वचिदाप्तधनैश्चोरैर्मुषितं सदश्वधनम् ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनरक्ताग्निपित्तदोषैरभिभूतो जायते नरो राजा ।क्षोणीसुतहिमकरयोर्लग्ने तीक्ष्णस्वभावश्च ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनसक्लेशो निर्द्रव्यः सुखसुतधनबन्धुहीनश्च ।पाताले कुजशशिनोर्विकलश्च भवेत्तथा जातः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनक्षुद्रः परधनलुब्धो बहुप्रलापो न सत्यवचनश्च ।ईर्ष्यायुक्तो मनुजः कुजशशिनोः सप्तमस्थाने ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनतुरगगजपत्तिसम्पत्समाकुलं तुहिनगुर्नरं कुरुते ।रुधिरेण समायातो गगनतले विक्रमैर्युक्तम् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठनसुखबुद्धिसत्वयुक्तः सुभगः कान्तो विलग्नगे शशिनि ।बुधसहिते भवति नरो वाचालश्चातिनिपुणश्च ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनबन्धुसुहृत्तनयसुखप्रतापकनकाश्वरत्नसंयुक्तम् ।बान्धवराशाविन्दुर्जनयति बुधसंयुतः सुभगम् ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठनद्यूने बुधसंयुक्तो जनयति चन्द्रः प्रतापिनं पुरुषम् ।नृपसंमतं नृपं वा विख्यातं सत्कविं ललितम् ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनदशमे बुधहिमकरयोर्मानी धनवानतिख्यातः ।नृपसचिवो वयसोऽन्ते दुःखी स्याद्बन्धुपरिहीनः ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनलग्ने सुरेज्यशशिनोः क्षितिपः पृथुपीनवक्षाः स्यात् ।बहुतनयमित्रभार्यः सुशरीरो बन्धुभिर्जुष्टः ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनमन्त्री राजप्रतिमः सुखबन्धुसमन्वितो महाविभवः ।बहुशास्त्राक्षतबुद्धिर्हिबुके स्याज्जीवशशिनोश्च ॥ ३५ ॥
- श्लोक 36कुंडली के 1 पठनजायाभवने कुरुतः सुप्राज्ञं पार्थिवं कलाकुशलम् ।वाणिजकं जीवेन्दू नृपवल्लभमर्थवत् स्फीतम् ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनकर्मणि सुरेज्यशशिनोर्विद्यादानार्थमानकीर्तियुतः ।सौम्यः प्रलम्बबाहुः सर्वनमस्यो नरो भवति ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनवेश्यास्त्रीकृतसौख्यः कान्ततनुः संमतो गुरूणां च ।माल्याम्बरगन्धयुतो लग्ने शशिशुक्रयोर्भवति ॥ ३८ ॥
- श्लोक 39कुंडली के 1 पठनपाताले शशिशुक्रौ स्त्रीजनसुखभागिनं नरं कुरुतः ।जलसंयानाप्तधनं जनप्रियं भोगसम्पन्नम् ॥ ३९ ॥
- श्लोक 40कुंडली के 1 पठनजामित्रे सितशशिनोर्बहुयुवतिरतो न चातिधनपुत्रः ।स्त्रीजननो मेधावी भूपतिचरितो भवेत्पुरुषः ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनमानाज्ञाविभवयुतः कर्मणि शुक्रे शशाङ्कयुते ।राज्ञो मन्त्री ख्यातः क्षमान्वितः स्याद्बहुजनश्च ॥ ४१ ॥
- श्लोक 42कुंडली के 1 पठनदासाः खलाः सुरौद्रा भवन्ति लुब्धाश्च मानवा हीनाः ।भास्करसुतहिमकरयोर्लग्ने निद्रालसाः पापाः ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनजलमुक्तामणिपोतैर्जीवन्ति नरास्तथा खननवृत्त्या ।हिबुके शशिरविसुतयोः श्रेष्ठा जनसंमता जाताः ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठननगरग्रामपुराणां महत्तरा राजपूजिताः पुरुषाः ।जायन्तेऽर्कजशशिनोर्जायाभवने युवतिहीनाः ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनप्रचुरतुरंगमदलितारातिः ख्यातः कुयोषितः पुत्रः ।भवति नराणामधिपः शशिशनियोगे खमध्यगते ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनसौम्यग्रहसंयुक्तः प्रायेण शुभावहो भगणनाथः ।भौमार्कियुतोदृष्टो दशमे च चमूपतिं कुर्यात् ॥ ४६ ॥
- श्लोक 47कुंडली के 1 पठनहिंस्रोऽग्निकर्मकुशलो धातोर्वादे कृतश्रमो दूतः ।भौमबुधयोर्विलग्ने गुह्यधिकारी भवेत्पुरुषः ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनबान्धवरहितः सहितो मित्रैश्चधनान्नभोगवाहनवान् ।हिबुके बुधभूसुतयोः स्वजनेषु निराकृतो जातः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनभ्रमति च देशाद्देशं कर्मकरो नीचपरिभूतः ।भौमेन्दुजयोर्द्यूने सुविवादकरो मृतप्रथमदारः ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनसेनाधिपतिः शूरः शठस्वभावो भवेदतिक्रूरः ।बुधकुजयोराकाशे राज्ञोऽभिमतो नरो धीरः ॥ ५० ॥
- श्लोक 51कुंडली के 1 पठनमन्त्री गुणप्रधानो धर्मक्षेत्रे प्रलब्धपरिकीर्तिः ।जीवकुजयोर्विलग्ने नित्योत्साही भवेत्पुरुषः ॥ ५१ ॥
- श्लोक 52कुंडली के 1 पठनबन्धुसुहृत्सम्पन्नः स्थिरचित्तः सौख्यभाक् भवेद्धिबुके ।भौमामरपूजितयोर्नृपसेवी देवगुरुभक्तः ॥ ५२ ॥
- श्लोक 53कुंडली के 1 पठनगिरिदुर्गतोयकाननविचरणशीलः सुबान्धवः शूरः ।कुजजीवयोर्युवत्यां जायाहीनः पुमान् भवति ॥ ५३ ॥
- श्लोक 54कुंडली के 1 पठनत्रिदशगुरुभूमिसुतयोराकाशे पार्थिवो विपुलकीर्तिः ।बहुधनजनपरिवारः कर्मसु निपुणो भवेत् पुरुषः ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनशुक्रकुजयोर्विलग्ने वेश्यानिरतः कुशीलकर्मा च ।स्त्रीहेतोर्नष्टधनो न तु चिरजीवी भवेत्पुरुषः ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनबन्धुसुतमित्रहीनो मानसपीडाभिरर्दितः पुरुषः ।भौमसितयोश्चतुर्थे नानादुःखैर्भवेत्तप्तः ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनस्त्रीलोलुपः कुचरितः स्त्रीहेतोः प्राप्तवान् महादुःखम् ।भौमसितयोर्युवत्यां हीनाचारो भवेत्पुरुषः ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनअस्त्राचार्यो मतिमान् विद्याधनवस्त्रमाल्यवान् भवति ।ख्यातो नरेन्द्रसचिवः सितकुजयोर्व्योम्नि संस्थितयोः ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठनसंग्रामलब्धविजयो जननीद्वेष्यो भवेत्पुरुषः ।भौमार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्यश्च ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनपानान्नसौख्यरहितः स्वजनैस्त्यक्तो भवति जातः ।भौमार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनजायासुखसुतहीनो दैन्यपरो व्याधितो व्यसनशीलः ।भौमार्कजयोरस्ते जनपरिभूतो भवेत्कृपणः ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनराज्ञः सम्प्राप्तधनो महापराधाच्च दण्डितस्तेन ।भौमार्कजयोर्दशमे न सत्यवचनो नरो भवति ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनशुभमूर्तिः शुभशीलो विद्वान्नृपसत्कृतो विषयनाथः ।बुधजीवयोर्विलग्ने वाहनसुखभोगवान् भवति ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनबन्धुसुहृत्सुखसहितः स्त्रीधनसौभाग्यसम्पन्नः ।बुधजीवयोश्चतुर्थे निपुणो नृपसंमतो भवति ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनसुकलत्रो हतशत्रुर्बहुजनमित्रार्थसत्वसम्पन्नः ।बुधजीवयोर्युवत्यामतीत्य पितृपक्षमधिकः स्यात् ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनबोधनगुर्वोर्दशमे नरेन्द्रमन्त्री नृपोऽथवा भवति ।मानाज्ञाख्यातियुतः श्रौतार्थपरो विनीतश्च ॥ ६६ ॥
- श्लोक 67कुंडली के 1 पठनबुधशुक्रयोर्विलग्ने सुशरीरः पण्डितः सतां सुभगः ।नृपपूजितोऽतिधन्यो द्विजसुरभक्तो भवेत् ख्यातः ॥ ६७ ॥
- श्लोक 68कुंडली के 1 पठनबुधशुक्रौ हिबुकस्थौ पुत्रसुहृद्बन्धुसंयुतं सुभगम् ।मन्त्रिणमथवा नृपतिं कुरुतः कल्याणसम्पन्नम् ॥ ६८ ॥
- श्लोक 69कुंडली के 1 पठनबुधशुक्रयोर्युवत्यां सद्बहुयुवतिपरिवेष्टितः पुरुषः ।भोगधनैश्वर्ययुतो भवति सुखी संमतो राज्ञाम् ॥ ६९ ॥
- श्लोक 70कुंडली के 1 पठनबोधनसितयोः कर्मणि नीतिज्ञो भवति भूपतिः साधुः ।नीचाश्रयो न चाढ्यः सफलारम्भः समर्थश्च ॥ ७० ॥
- श्लोक 71कुंडली के 1 पठनमलिनशरीरः पापी विद्याधनवाहनैः परित्यक्तः ।सौम्यार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्यश्च ॥ ७१ ॥
- श्लोक 72कुंडली के 1 पठनपानान्नबन्धुरहितः स्वजनेषु तिरस्कृतो भवति मूढः ।सौम्यार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः ॥ ७२ ॥
- श्लोक 73कुंडली के 1 पठनईश्वरभृतको मूर्खः परोपकारी न साधुरतिमलिनः ।सौम्यार्कजयोरस्ते न सत्यवचनो नरो भवति ॥ ७३ ॥
- श्लोक 74कुंडली के 1 पठनप्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः ।सौम्यार्कजयोर्दशमे द्विजगुरुसुरपूजितो भवति ॥ ७४ ॥
- श्लोक 75कुंडली के 1 पठनजीवसितयोर्विलग्ने गुरूपदेशो भवेत् क्षमानाथः ।ब्राह्मणकुलसंभूतोऽप्यनुकूलो भवति नृपतुल्यः ॥ ७५ ॥
- श्लोक 76कुंडली के 1 पठनप्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः ।जीवसितयोश्चतुर्थे द्विजगुरुसुरपूजितो भवति ॥ ७६ ॥
- श्लोक 77कुंडली के 1 पठनसुस्त्रीरत्नार्थयुतः स्त्रीजननो लब्धसौख्यकीर्तिश्च ।गुरुशुक्रयोर्युवत्यां वरवाहनभोगवान् भवति ॥ ७७ ॥
- श्लोक 78कुंडली के 1 पठनगगनस्थौ गुरुशुक्रौ मानाज्ञाविभवविस्तरैस्सहितम् ।जनयेतां पृथिवीशं बहुभृत्यधनं सुशीलं च ॥ ७८ ॥
- श्लोक 79कुंडली के 1 पठनलग्ने जीवार्कजयोर्मदालसा निष्ठुराः समभिजाताः ।विद्वांसो धनसाराः किञ्चित्सुखिता भवन्ति खलाः ॥ ७९ ॥
- श्लोक 80कुंडली के 1 पठननृपसचिवो निरुजतनुर्जयोदयी बान्धवैः सुहृद्भिश्च ।पातालेऽर्कजगुर्वोः प्रीतिधनः सौख्यवान् भवति ॥ ८० ॥
- श्लोक 81कुंडली के 1 पठनस्त्रीवैरान्नष्टधनः शूरो व्यसनी शठो न शुभमूर्तिः ।द्यूने सुरेज्ययमयोः पितृधनलुब्धश्च जायते मूर्खः ॥ ८१ ॥
- श्लोक 82कुंडली के 1 पठनदशमे भास्करिजीवौ नरेन्द्रदयितं च भूपतिं कुरुतः ।अल्पापत्यं नचलं गोकुलबहुवाहनार्थं च ॥ ८२ ॥
- श्लोक 83कुंडली के 1 पठनरमते सर्ववधूभिः कान्तशरीरः सुखार्थभोगयुतः ।लग्ने भृगुसुतयमयोर्बहुभृत्यः शोकसन्तप्तः ॥ ८३ ॥
- श्लोक 84कुंडली के 1 पठनमित्रेभ्यो धनलाभं बन्धुभ्यः सत्क्रियाः समाप्नोति ।शनिशुक्रयोश्चतुर्थे नृपतेश्च तथाप्ततां याति ॥ ८४ ॥
- श्लोक 85कुंडली के 1 पठनस्त्रीरत्नानि सुखानि च धनानि कीर्तिञ्च भूतिमखिलां च ।मन्दसितयोर्युवत्यां प्राप्नोति पुमान् विषयलाभम् ॥ ८५ ॥
- श्लोक 86कुंडली के 1 पठनसर्वद्वन्द्वविमुक्तो लोके ख्यातो विशिष्टकर्मा च ।मेषूरणे सितार्क्योर्नृपतेर्मन्त्री भवेदधिकः ॥ ८६ ॥
- श्लोक 87एवं त्रिभिश्चतुर्भिः पञ्चभिरथ सप्तभिश्च षड्भिर्वा ।वक्तव्यं केन्द्रस्थैर्ग्रहयोगफलं विचिन्त्य धिया ॥ ८७ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।