अध्याय 81: नक्षत्रजातकाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 81 (Nakshatra Jatak)

27 श्लोक

  1. श्लोक 1कुंडली के 1 नियमविज्ञानवानरोगो भिषक्प्रदातार्थभृत्यवनितेशः ।दक्षः क्षितिपतिसेवी जातः स्यादाश्विने शूरः ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमधीरः क्रूरोऽनृतवाक्‌ परवित्तहरो नरश्चपलबुद्धिः ।बहुशत्रुपुत्रभृत्यो प्रियमांसमद्यश्च ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमधर्ममतिर्बहुवित्तः स्वाध्यायाभिजनरूपसम्पन्नः ।अकृपणमतिः शशियुते जातः स्यादग्निदैवत्ये ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमसुतधनपशुमान्‌ विद्वान्‌ दाताधीरोऽल्पवाक्स्थिरमतिश्च ।वृषभगतिस्तेजस्वी प्राजापत्ये नरो जातः ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमअतिशीलरूपदृष्टः सौम्यमतिः सोद्यमः श्रुतिरहस्यः ।चपलमतिः सुविनीतो जातः स्यादिन्दुदैवत्ये ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमरौद्रः क्रूरः क्रोधी परदारार्थापहारशीलश्च ।वागनिष्ठुरोऽतिधीरो जातः स्याद्‌ रुद्रदैवत्ये ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमक्षयवृद्धिभावनायां यशांसि विदिशो भवन्ति कृच्छ्राणि ।व्याधिबहुलोबहुसुतः पुनर्वसौ जायते मनुजः ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमद्युतिकान्तिसत्त्वयुक्तो बहुश्रुतोदारदासधनचेष्टः ।विपुलकुलवंशकर्ता वक्ता पुष्ये नरो जातः ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमस्वल्पगतिजिह्माक्षः क्रूरःक्रोधी नरःसदामर्षः ।दाता हन्ता भोक्ता सार्पे जातो बहुव्यसनः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमपितृभक्तः क्रोधवशो मात्रा पितृयज्ञसत्रयाजी च ।द्विचतुष्पदमित्राढ्यो बह्वरिमित्रो नरः पित्रे ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमबहुभाग्योऽल्पापत्यः सुभगः प्रियदर्शनो नरोऽल्पधनः ।नातिप्रबुद्धबुद्धिः परभाग्यविभूर्भवति भाग्ये ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमहयगजरथप्रयायी दाता भोक्ता विहाररतिशीलः ।मृदुवाग्गीतरतिः स्यादार्यम्णे मानवो विद्वान्‌ ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमउपचितकरचरणभुजो बहुविधधनधान्यताग्रणीः सेर्ष्यः ।धर्मार्थकामभागी हस्ते सुतवान्‌ नरो जातः ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमवेदार्थशास्त्रकुशलः पशुमानत्यन्त शिल्पकर्मा च ।चित्राक्षश्चित्रायां सुभगश्च नरस्त्रिपुत्रश्च ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमबहुजनभर्ता वक्ता त्रिवर्गभोक्ता प्रियो महोत्साहः ।वामाचारोऽल्परिपुः स्वातौ जातः कुलाग्र्यश्च ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमश्रीमान्‌ इज्याभिरतः प्राज्ञोऽनुपसाधुकृत्‌ कृतार्थपतिः ।तीक्ष्णोऽभिमानयुक्तश्चन्द्राग्नौ ख्यातकीर्तिश्च ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमस्थिरमित्रस्तेजस्वी सुतवानत्यन्त सौख्यभागी च ।ज्ञातिष्वग्र्योऽर्थपरो जातः स्यान्‌ मित्रदैवत्ये ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमज्ञातिषु गुणेषु राजसु पूजां प्राप्नोति नाशयति शत्रून्‌ ।तेजोऽधिकोऽर्थभागी जातः स्यादिन्द्रदैवत्ये ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियमधनधान्याढ्यो दाता परवित्तहरो नरः कलहशीलः ।क्रूरः परोपतापी मूले मूलोपजीवी च ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमसलिलपथकर्मसिद्धः क्लेशसहिष्णुः परस्य दारेच्छुः ।नित्यमकल्यशरीरः प्रियमद्यः पूर्वाषाढासु ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमयानोद्यानवनरतिः प्रवाससुरतीर्थसाधुसेवी च ।बहुशिल्पार्थः प्रियवाक्‌ जातः स्याद्‌ वैश्वदैवत्ये ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमज्ञातिश्रेष्ठो धनवान्‌ दानरुचिर्भवति दक्षिणो दक्षः ।नित्यमरोगशरीरः श्रवणे हतशत्रुपक्षश्च ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमधनधान्यसंचयानामीशः स्यान्नृपतिसत्कृतो यज्वा ।अक्लेशभाक्‌ जितरिपुः श्रविष्ठयाऽभीष्टतारश्च ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमपरदारमद्यसेवी क्लेशसहो वारुणे नरो धीरः ।स्थिरसंचयः स्थिरसुहृद्भिषक्क्रिया पंडितो रोगी ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमदारुणकर्मा क्रोधी निशाचरस्तीक्ष्णविक्रमश्चपलः ।विषमः प्रसद्य हन्ता प्राक्प्रोष्ठपदे भवति जातः ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमनृपसत्कृतो बहुसुतः प्रदानशीलो जले सततभीरुः ।इज्याध्ययनरतिः स्यादाहिर्बुध्न्ये नरो जातः ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमसर्वार्थभुक्‌ प्रदाता प्रवासनिरतो विशुद्धकुलशीलः ।गोमाननल्पपुत्रः पौष्णे विद्वान्‌ नरो जातः ॥ 27 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।